This page has not been fully proofread.

अलौकिको दुलनास्यमष्टमं स्तोत्रम् ।
 
त्वत्प्रभुत्वपरिचर्वणजन्मा
 
कोप्युदेतु परिपोषरसोऽन्तः । CHO
 
सर्वकालमिह मे परमस्तु
ज्ञानयोगमहिमादि विदूरे ॥ २ ॥
 
त्वदिति । त्वत्प्रभुत्वस्य त्वत्स्वामिकत्वस्य "गजामि वतेति"
प्रागुक्तश्लोकयुक्त्या यत्परिचर्वर्ण ततो जन्म यस्य । मम
कोप्यलौकिकः परितोषरस आनन्दमसरः । इहेति जगति ।
सर्वकालं पुत्थानावसरे ऽपि । परं केवलमुदेतु उल्लसतु । ज्ञानं
विश्वमयस्त्रात्मप्रतिपत्तिः । योगस्तत्तद्भमिकालाभः । तयोमहिमा
मकर्षः । आदिपदात्तत्लिद्धयुदयरूपः फलम् ॥ २ ॥
 

 
लोकवद्भवतु मे विषयेषु
स्फीत एव भगवन्परितर्षः ।
केवलं तव शरीरतयैतान्
 
. लोकयेयमहमस्तविकल्पः ॥ ३ ॥
 
५३
 
लोकवदिति । महार्थमुद्रामुद्रितस्योक्तिः । हे भगवन् मम
लोकस्येव विषयेषु रूपादिषु स्फीतो बहल एव परितर्षः
स्पृहयालुता अस्तु । किं तु एतान्विषयानहं अस्तविकल्पो
गलितभेदप्रतिपत्तिः सन्, तब चिदात्मनः शरीरतया अहंता-
सारत्वेन, लोकयेयं पश्येयम् ॥ ३ ॥
 
देहभूमिषु तथा मनसि त्वं
प्राणवर्त्मनि च भेदमुपेते ।
 
CC-0 Pulwama Collection. Digitized by eGangotri