This page has not been fully proofread.

५२
 
शिवस्तोत्रावल्याम्
 
सङ्गाच्च । एवमुत्तरत्रापि स्मर्तव्यमिति शिवम् ॥ ९ ॥
इति श्रीमदाचार्योत्पलविरचितायां स्तोत्रावली विधुरविजय-
नामधेये सप्तमस्तोत्रे श्रीक्षेमराजकृता विवृतिः ॥
 
ॐ यः प्रसादलव ईश्वरस्थितो
या च भक्तिरिव मामुपेयुषी ।
तौ परस्परसमन्वितौ कदा
 
तादृशे वपुषि रूढिमेष्यतः ॥ १ ॥
 
यइति । मायाकालुष्योपशान्या चितो नैर्मल्यं प्रसादः ।
तस्य लवः अल्पता । पूर्णतायां तु देहापगमाच्छिवतैव । इश्वर इति
सप्तम्यनन्यभावे । ईश्वरे एव स्थितइसर्थः स एव हि चिद्रूपः
तथा स्वयमेव प्रसीदति भक्तिप्रसादात् । ईश्वरस्य रूपोपमाव्य-
यत्वम् । इवशब्दो भक्तेः परिमिततामाह । काष्ठामाप्सा ह्यसौ
मोक्षास्वादमय्येव । उपेयुषी उपगतवती । तौ भक्तिप्रसादौ परस्परं
सम्यगन्वितौ तरुणाविव प्रेमनिर्भरतया स्वानुरूप्येण सम्बद्धौ
तादृशे वपुपीति परानन्दघनतैकमये पूर्ण स्वरूपे । रूढ़ि
विश्रान्तिम् ॥ १ ॥
 
-
 
44
 
स्फुटार्थस्त्वयमेव प्रतिभाति यथा-कुलाङ्गनायां कुलवत्यां सत्यां परन्यां पुत्रवत्यां
जातायां यथा पत्युर्ममता दृढ़तरा भवति तथा स्वभावतो न तु मदिज्छया प्रसूताणिमा-
विकायां भक्त्यां मम चेतसो ममता सुदृढ़ा भवतु मम मनासे तव भक्तिः परां स्थिरतां
लभतामिति यावत् । अस्य पद्यस्य भक्तिदायॆ तात्पर्य्यमिति शिवम् ॥
 
+ यः प्रसादकणो मविषयक ईश्वरे स्थितः । ईश्वरप्रसादकणिकां विनाअस्पीयस्था
अपि भक्तेरसम्भवात् । या च भक्तिरिव, अपूर्णत्वाद् भक्त्याभासो, माये स्थिता । ईश्वर-
प्रसादकणिकैव गाणभक्तिरूपेण या मां प्राप्तवतीत्यर्थः । ते इमे प्रसाइभक्ती परस्परं वर्द्ध-
यन्त्यौ का पूर्णस्वरूपलाभात् परमानन्दकवपुषि परिणति गमिष्यत इति स्पष्टोऽर्थः ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri