This page has not been fully proofread.

विधुरविजयनामधेयं सप्तमं स्तोत्रम् ।
 
५१
 
भक्तीति । भक्तिमदेन समादेशप्रहर्षेण जनितो यो विभ्रमो
लोकोत्तरो विलासस्तद्वशेन । करणैश्चक्षुरादिभिः । अविकलं पूर्ण
कृत्वा । करणप्रसरात्मनि व्युत्थानेऽपि श्रीभैरवीयमुद्राप्रवेशयुक्त्या
समाविष्ट एव भूत्वाऽखिलं लोकं विश्वं लोकं शिवमयं, क्रियाश्च
वाङ्मनःकायव्याप्तीः सकलाः पूजामयीश्चिन्मयस्वरूपोल्लास-
रूपाः पश्येयम् ॥ ८ ॥
 
मामकमनोगृहीत-
त्वद्भक्ति कुलाङ्गनाऽणिमादिसुतान् ।
 
सूत्वा सुबद्धमूला
ममेति बुद्धिं दृढीकुरुताम् ॥ ६ ॥
 
मामक इति । मामकेन मनसा गृहीता माणेशत्वेन स्वीकृता
येयं भक्तिरेव अतिस्पृहणीयत्वात्सर्वजनागोचरत्वाच्च कुलाङ्ग-
ना पत्नी, अथ च आगमभाषया कुलेश्वरीरूपा । सा आणिमादीनेव
सुतान् सूत्वा, अन्तः स्थितानेव अभिव्यक्ति नीत्वा, महाव्याप्या
मुस्फुटतया परामृश्य, मुष्ठु बद्धमूला मरूढा सती, मम
इयद्विश्वं न तु अन्यस्योत बुद्धिं दृढीकुरुतां प्ररूढिं नयतु ।
अत्र च अभेदसारा अणिमादयोऽभिप्रेताः । तथाहि चित्पद एव
स चान्तर्भावक्षमत्वादणिमा । व्यापकत्वान्महिमा । भेदमयगौरवा-
भावाल्लघिमा । विश्रान्तिस्थानत्वात्प्राप्तिः । विश्ववैचित्र्यग्रहणा-
त्प्राकाम्यं । अखण्डितत्वादीशित्वं । सर्वसहत्वाद्यत्रकामावसायित्वं
च । सयतः परिपूर्णतया विद्यते,ऽन्यत्र तु त्वत्प्रसादादतिपरिमित
मितिकृत्वा पूर्णमेवात्र तदभिहितं, न त्वन्यत्, पूर्णत्वेन नैराका
यात् । "आसतां तावदन्यानि दैन्यानी"त्युक्ते व्याघातम-
CC-0 Pulwama Collection. Digitized by eGangotri