This page has been fully proofread once and needs a second look.

चित्तमिदं निःशेषित-
विषयविषासङ्गवासनाऽवधि मे ॥ ५ ॥
 
त्वदिति । त्वच्चरणभावना त्वद्भक्तिचिन्ता, सैवामृतरससार उत्कृष्टः आनन्दप्रसरः, तत्र आस्वादे चमत्कारे, नैपुणं वैदग्ध्यं, ममेदं चित्तं लभताम् । कीदृशम् - निःशेषितः समाप्तो विषयविषासंगवासनानां वेद्यहालाहल- व्यसनसंस्काराणामवधिर्मर्यादा येन ॥५॥
 
त्वद्भक्तितपनदीधितिसंस्पर्शवशान्ममैष दूरतरम् ।
चेतोमाणर्विमुञ्चतु रागादिकतप्तवन्हिकणान् ॥ ६ ॥
 
त्वदिति । मम चेतोमणिरौचियाच्चित्तसूर्यकान्तरत्नं,त्वद्भक्तितपनदीधिति- संस्पर्शवशाद्भवत्समावेशसूर्यकरासङ्गात् रागादिकानेव तप्तवन्हिकणान् द्रष्टुमशक्यान् स्फुलिङ्गान्, दूरतररमत्यर्थे, मुञ्चतु जहातु ॥ ६ ॥
 
तस्मिन्पदे भवन्तं सततमुपश्लोकयेयमत्युच्चैः ।
हरिहर्यश्वविरिञ्चा अपि यत्र बहिः प्रतीक्षन्ते ॥ ७॥
 
तस्मिन्निति । तस्मिन्नत्युच्चैः पदे परशक्तिमार्गे त्वामुपश्लोकयेयं श्लोकैः स्तवेयं सम्यक् परामृशेयम् । हर्यश्वः इन्द्रः । बहिः प्रतीक्षन्ते । लिप्सवोऽपि वार्तानभिज्ञा इति यावत् ॥ ७ ॥
 
भक्तिमदजनितविभ्रम-
वशेन पश्येयमविकलं करणौणैः
शिवमयमखिलं लोकं
क्रियाश्च पूजामयीः सकलाः ॥ ८ ॥