This page has been fully proofread once and needs a second look.

५०
 
शिवस्तोत्रावल्याम्
 
चित्तमिदं निःशेषित-

विषयविषासङ्गवासनाऽवधि मेंमे ॥ ५ ॥
 

 
त्वदिति । त्वच्चरणभावना त्वद्भक्तिचिन्ता, सैवामृतरससार
उत्कृष्टः आनन्दप्रसरः, तत्र आस्वादे चमत्कारे, नैपुणं वैदग्ध्यं,
ममेदं चित्तं लभताम् । कीदृशम् - निःशेषितः समाप्तो विषयविपाषासं-
गवासनानां वेद्यहालाहल- व्यसनसंस्काराणामवधिर्मर्यादा येन ॥५॥
 

 
त्वद्भक्तितपनदीधितिसंस्पर्शवशान्ममैष
 
दूरतरम् ।
 

चेतोमाणर्विमुञ्चतु रागादिकतप्तवन्हिकणान् ॥ ६ ॥
 
त्वद्भ-

 
त्वदिति । मम चेतोमणिरौचियाच्चित्तसूर्यकान्तरत्नं,
त्वद्भक्तितपनदीधिति- संस्पर्शवशाद्भवत्समावेशसूर्यकरासङ्गात,त् रागा-
दिकानेव तप्तवन्हिकणान् द्रष्टुमशक्यान् स्फुलिङ्गान्, दूरतर-
रमसर्थ
रमत्यर्थे, मुञ्चतु जहातु ॥ ६ ॥
 

 
तस्मिन्पदे भवन्तं सततमुपश्लोकयेयमत्युच्चैः ।

हरिहर्यश्वविरिञ्चिाचा अपि यत्र बहिः प्रतीक्षन्ते ॥ ७॥
 

 
तस्मिन्निति । तस्मिन्नत्युच्चैः पदे परशक्तिमार्गे त्वामुपश्लो-
कयेयं श्लोकैः स्तवेयं सम्यक् परामृशेयम् । हर्यश्वः इन्द्रः । बहिः
प्रतीक्षन्ते । लिप्सवोऽपि वार्तानभिज्ञा इति यावत् ॥ ७ ॥

 
भक्तिमदजनितविभ्रम-

वशेन पश्येयमविकलं करगणैः ।
णौ।
शिवमयमखिलं लोकं
 

क्रियाश्च पूजामयीः सकलाः ॥ ८ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri