This page has not been fully proofread.

५०
 
शिवस्तोत्रावल्याम्
 
चित्तमिदं निःशेषित-
विषयविषासङ्गवासनाऽवधि में ॥ ५ ॥
 
त्वदिति । त्वच्चरणभावना त्वद्भक्तिचिन्ता, सैवामृतरससार
उत्कृष्टः आनन्दप्रसरः, तत्र आस्वादे चमत्कारे, नैपुणं वैदग्ध्यं,
ममेदं चित्तं लभताम् । कीदृशम् - निःशेषितः समाप्तो विषयविपासं-
गवासनानां वेद्यहालाहलव्यसनसंस्काराणामवधिर्मर्यादा येन ॥५॥
 
त्वद्भक्तितपनदीधितिसंस्पर्शवशान्ममैष
 
दूरतरम् ।
 
चेतोमाणर्विमुञ्चतु रागादिकतप्तवन्हिकणान् ॥ ६ ॥
 
त्वद्भ-
त्वदिति । मम चेतोमणिरौचियाच्चित्तसूर्यकान्तरत्नं,
क्तितपनदीधितिसंस्पर्शवशाद्भवत्समावेशसूर्यकरासङ्गात, रागा-
दिकानेव तप्तवन्हिकणान् द्रष्टुमशक्यान् स्फुलिङ्गान, दूरतर-
रमसर्थ, मुञ्चतु जहातु ॥ ६ ॥
 
तस्मिन्पदे भवन्तं सततमुपश्लोकयेयमत्युच्चैः ।
हरिहर्यश्वविञ्चिापि यत्र बहिः प्रतीक्षन्ते ॥ ७॥
 
तस्मिन्निति । तस्मिन्नत्युचैः पदे परशक्तिमार्गे त्वामुपश्लो-
कयेयं श्लोकैः स्तवेयं सम्यक् परामृशेयम् । हर्यश्वः इन्द्रः । बहिः
प्रतीक्षन्ते । लिप्सवोऽपि वार्तानभिज्ञा इति यावत् ॥ ७ ॥
भक्तिमदजनितविभ्रम-
वशेन पश्येयमविकलं करगणैः ।
शिवमयमखिलं लोकं
 
क्रियाश्च पूजामयीः सकलाः ॥ ८ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri