This page has been fully proofread once and needs a second look.

विधुरविजयनामधेयं सप्तमं स्तोत्रम् ।
 
एतदिति । एतत्सुखं तद्धेतुरूपं मम अस्तु, इदं तु दुःखं तद्धे-
तुरूपं मम माभूदित्येवं भेदावग्रहरूपरागद्वेषाद्यात्मनो निगडस्य
बन्धनस्य दृढे कठिने मूले अन्तर्मध्ये । भवन्मयतैक्ये प्रायः चि-
दैक्यप्रतीतिरेव परशुः कुठारः ॥ २ ॥
 

 
गलतु विकल्प कलंकावली समुल्लसतु हृदि निरर्गलता ।

भगवन्नानन्दरसप्लुताऽस्तु मे चिन्मयी मूर्तिः ॥ ३ ॥
 

 
गलत्विति । विकल्पानां भेदप्राधान्यात्कलङ्कृता । निरर्गलता
निःशङ्कता स्वातन्त्र्यं । मम चिन्मयी मूर्तिः प्रमातृता आनन्दरस-
प्लुता समावेशानन्दो- च्छलिता अस्तु ॥ ३ ॥
 

 
रागादिमयभवाण्डक-

लुठितं त्वद्भक्तिभावनाम्बिका तैस्तैः ।

आप्याययतु
रसै
 
प्याययतु
 
र्मो
प्रवृद्धपक्षो यथा भवामि खगः ॥ ४ ॥
 

 
रागादीति । रागादिमये भवाण्डके संसारगोलके । लुठितम-
घोषः पतन्तं मां । त्वद्भक्तिभावनैवामित्रम्बिका माता । तैस्तैः परमान-
न्दसारै: रसैराप्याययतु तर्पयतु । यया प्रवृद्धपक्षः प्रकर्षेणासा-
दितव्याप्तिज्ञानक्रियामयस्त्रावात्मपक्षः । खगो निर्मलदिग्गगनगति-
र्भवामि । अण्डलुठितश्च पक्षी मात्रा रसैराप्यायितः खे गच्छतीति
श्लेषोपमाध्वनिः ॥ ४ ॥
 

 
त्वच्चरणभावनाऽमृत-

रससारास्वादनैपुणंणां लभताम् ।
 
C
 
CC-0 Pulwama Collection. Digitized by eGangotri