This page has been fully proofread once and needs a second look.

४८
 
शिवस्तोत्रावल्याम्
 
वपुः स्वरूपं न स्यात् ॥ ९ ॥
 

 
भवदङ्ग परिष्वङ्गसम्भोगः स्वेच्छयैव मे ।

घटतामियति प्राप्ते किं नाथ न जितं मया ॥ १० ॥
 

 
भवदिति । अङ्गपरिष्वङ्गः परमसमावेशस्पर्श: । स्वेच्छया न
तु कादाचित्कत्वेन । किं न जितं सर्वोत्कृष्टेन मयैव स्थित-
मित्यर्थः ॥ १० ॥
 

 
प्रकटीभव नान्याभिः प्रार्थनाभिः कदर्थनाः ।

कुर्मस्ते नाथ ताम्यन्तस्त्वामेव मृगयामहे ॥११॥

 
प्रकटीति । अन्याभिरर्थनाभिर्याच्चूञाभिः कदर्थनाः व्याकु
लताः तव चिद्रूपरस्य स्वात्मनः न कुर्मः, यतस्ताम्यन्तो गाढानु-
रागविवशाः त्वमिव चिद्रूपं न त्वन्यं कं चित्, मृगयामहे अन्वि-
घ्
ष्यामः, अतः प्रकटीभव प्रकाशस्वेति शिवम् ॥ ११ ॥
 

 
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलीलौ अध्वविस्फुरणाख्ये

षष्ठे स्तोत्रे श्रीक्षेमराजावरचिता विवृतिः ॥ ६ ॥
 

 
ॐ त्वय्यानन्दसरस्वति समरसतामेत्य नाथ मम चेतः ।

परिहरतु सकृदियन्तं भेदाधीनं महाऽनर्थम् ॥ १ ॥
 

 
त्वयीति । आनन्दसरस्वति हर्षसमुद्रे । समरसतां समावेशकै-
वल्यं । सकृदेकवारं । परिहरतु यथा न पुनर्भवतीत्यर्थः । इयन्तमप-
र्यन्तम् ॥ १ ॥
 

 
एतन्मम नत्विदमिति रागद्वेषादि निगडदृढमूले ।

नाथ भवन्मयतैक्यप्रत्ययपरशुः पतत्वन्तः ॥ २ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri