This page has been fully proofread once and needs a second look.

भक्तिविलासाख्यं प्रथमं स्तोत्रम् ।
 

 

 
दधाति अपि तु विनोदहासरसचमत्कारमेव पुष्णाति तथा लोक-
व्यवहारो ममेति रूपकोपमया ध्वनति । पूर्वश्लोके आमन्त्रणपदा-
भावाद्भवद्भक्तीति न सङ्गतमेवेति कथमियँ स्तोत्रशय्येति श्री-
विश्वावर्त एव प्रष्टव्यः वयं तु सूक्तव्याख्यानोद्यताः ॥ २ ॥

 
लब्धत्वत्संपदां भक्तिमतां त्वत्पुरवासिनाम् ।

सञ्चारो लोकमार्गेऽपि स्यात्तयैव विजृम्भया ॥ ३॥
 

 
"लब्धत्व" दिति । ये समावेशमयप्रशस्तभक्तियुक्ताः अत एव
लब्धत्व- त्संपदः त्वत्पुरे विश्वपूरके त्वत्स्वरूपे वसन्ति तच्छीलाः
तेषां लोकमार्गे ऽपि यः सञ्चारो व्यवहारः स तयैव समावे-
शरसानन्दमय्या विजृम्भया विकस्वरतया स्यात् भवसेत्येव । अथ
च ये लब्धलौकिकश्रियः त्वद्भक्ताः त्वन्मण्डलवासिनः ते सर्वे
स्पृहणीयत्वात्
सदा विभूतिमुदिता इति समासोक्त्या
गमयति ॥ ३ ॥
 
सदा
 

 
साक्षाद्भवन्मये नाथ सर्वस्मिन् भुवनान्तरे

किं न भक्तिमतां क्षेत्रं मन्त्रः कैक्वैषां न सिद्ध्यति ॥ ४॥
 
.
 

 
"मासाक्षा.दुद्भव"दिति । भक्तिमतां व्याख्यातरूपभक्तिशालिनां
सर्वत्र भुवन- विषये किं न क्षेत्रं परसिद्धिसमुदयस्थानं क्व च
एषां मननत्राणधर्मा मन्त्रो न सिद्ध्यति यतः साक्षादिति
समावेशदृष्ट्या न कथामात्रेण भवन्मयमेव सर्वे भुवनमेषाम् ॥४॥

 
जयन्ति भक्तिपीयूषरसासववरोन्मदाः ।
तपसा त्व

अद्
वितीया अपि सदा त्वद्द्वितीय अपि प्रभो ॥५॥

 
जयन्ति भक्ति इति । भक्तिपीयूरस एवासववरः उत्कृष्टं
पानं तेन उद्गतहर्षा: ये ते जयन्ति सर्वोत्कर्षेण वर्तन्ते कीदृशाः
 
CC-0 Pulwama Collection. Digitized by eGangotri