This page has been fully proofread once and needs a second look.

अध्वविस्फुरणाख्यं षष्ठं स्तोत्रम् ।
 
परमानन्दमयीं प्रीतिमितः । अतो हेतोर्न परिखिद्य से, हे भगवन्
चिद्रूपस्वात्मन- स्वात्मन्, अणिमादिमाप्रार्थनाभिः न व्याकुलीक्रिय से
त्यर्थः ॥ ६ ॥
 

 
विलीयमानास्त्वय्येव व्योम्नि मेघलवा इव ।
 

भावा विभान्तु मे शश्वत्क्रमनैर्मल्यगामिनः ॥७॥
 

 
विलीयमाना इति । यत एवोल्लसिताः तत्र त्वय्येव क्रमात्क्रमं
संस्कार- शेषतया विगलन्ते । यथा व्योम्नि मेघलवाः । ते हि तत
एव प्रसृतास्तत्रैव विलीयन्ते । शश्वत्सदा, क्रमेण नैर्मल्यं
शुद्धचिद्रूपत्वं गच्छन्ति तच्छीला इत्यनेन चिदात्मतैव तेषां
तात्त्विकं रूपमिति ध्वनति ॥ ७ ॥
 

 
स्वप्रभाप्रसरध्वस्त पर्यन्तध्वान्तसन्ततिः ।

सन्ततं भातु मे कोऽपि भवमध्याद्भवन्माणःणिः ॥८॥
स्वम

 
स्वप्र
भेति । भवमध्यात् विश्वस्य मध्यतः । कोऽपीति
शुद्धचिद्रपः । भवानेव मणिः सर्वाभिलाषपूरकत्वान्मम सन्ततम-
व्युत्थानं कृत्वा भातु समावेशेन स्फुरतु । स्वप्रभाप्रसरेण निज-
रश्मिपरिस्पन्देन ध्वस्ता पर्यन्ता ध्वान्तसन्ततिरख्यातिप्रह-
वृत्तिर्येन ॥ ८ ॥
 
४७
 

 
कां भूमिकां नाधिशेषे किं तत्स्याद्यन्न ते वपुः ।

श्रान्तस्तेनाऽप्रयासेन सर्वतस्त्वामवाप्नुयाम् ॥ ९ ॥
 

 
कामिति । श्रान्त समत्यप्रत्यभिज्ञातस्वरूपत्वाच्चिरं संसारे खिन्नः।
त्वां चिद्रूपमप- मप्रयासेन ध्यानपूजाद्यायासं विना । सर्वतो यतः
कुतश्चिदवाप्नुयाम् समावेशेन स्वीकुर्याम् । यतः कां भूमिकामव-
स्थितिं नाधिशेषे नाधितिष्ठसि । तद्बाह्यमान्तरं वा वस्तु किं यत्तव
 
CC-0 Pulwama Collection. Digitized by eGangotri