This page has been fully proofread once and needs a second look.

शिवस्तोत्रावल्याम
 
वियोगेति । अवियुक्तः समाविष्टः । जगता क्षित्यादिशि-
वान्तेन विश्वेनापि वियोजितो विश्लेषितः । समावेशे च विश्वं
प्रयस्तमयो वस्तुतो भवसेत्येव ॥ २
 

 
कायवाड्यङ्मनसै यंर्यत्र यामि सर्वं त्वमेव तत् ।

इत्येष परमार्थोऽपि परिपूर्णोऽस्तु मे सदा ॥ ३ ॥
 

 
कायेति । यत्र विषये त्वमेव तदिति चिदेकसारत्वात् इसेत्ये
परमार्थ इति "यत्र यत्रे" त्युपक्रम्य "सर्वे शिवमयं यत" इसा-
त्याम्नातत्वात् । परिपूर्ण इति समावेशेन साक्षात्कृतः ॥ ३ ॥

 
निर्विकल्पो महानन्दपूर्णो यद्वद्भवाँस्तथा ।

भवत्स्तुतिकरी भूयादनुरूपैव वाङ्मम ॥ ४ ॥
 

 
निर्विकल्प इति । निर्विकल्पः शुद्धचिद्रूपः । तथेति निर्वि-
कल्पा महानन्दमयी च । अत एव स्तुसेत्ये समुचितत्वादनुरूपा ॥४॥

 
भवदावेशतः पश्यन् भावं भावं भवन्मयम् ।

विचरेयं निराकाङ्क्षः प्रहर्षपरिपूरितः ॥ ५ ॥
 

 
भवदिति । भावं भावमिति वीप्सया विश्वाक्षेपः । निराकाङ्क्ष
इति विशेषण द्वारको हेतुः महर्षेसात्यादिः । प्रकृष्टेन महानन्दात्मना
हर्षेण परिपूरितत्वादेव हि निराकाङ्क्षता भवति ॥ ५ ॥
 

 
भगवन्भवता पूर्णं पश्येयमखिलं जगत् ।

ताव तैवास्मि सन्तुष्टस्ततो न परिखिद्यसे ॥६॥

 
भगवन्निति । भवतश्चिन्मयस्य सम्बन्धितया प्रदेशोऽपि
ब्रह्मणः सार्वरूप्य- मनतिक्रान्तश्चाविकल्पश्चेति स्थित्याऽखिलं
जगत् पूर्णे पश्येयम् । भवता पूर्णमितिपाठे तु स्पष्टोऽर्थः । सन्तुष्टः
 
CC-0 Pulwama Collection. Digitized by eGangotri