This page has not been fully proofread.

शिवस्तोत्रावल्याम
 
वियोगेति । अवियुक्तः समाविष्टः । जगता क्षियादिशि-
वान्तेन विश्वेनापि वियोजितो विश्लेषितः । समावेशे च विश्वं
मयस्तमयो वस्तुतो भवसेव ॥ २ ॥
 
कायवाड्यनसै यंत्र यामि सर्व त्वमेव तत् ।
इत्येष परमार्थोऽपि परिपूर्णोऽस्तु मे सदा ॥ ३ ॥
 
कायेति । यत्र विषये त्वमेव तदिति चिदेकसारत्वात् इसेष
परमार्थ इति "यत्र यत्रे" त्युपक्रम्य "सर्व शिवमयं यत" इसा-
नातत्वात् । परिपूर्ण इति समावेशेन साक्षात्कृतः ॥ ३ ॥
निर्विकल्पो महानन्दपूर्णो यदद्भवाँस्तथा ।
भवत्स्तुतिकरी भूयादनुरूपैव वाङ्मम ॥ ४ ॥
 
निर्विकल्प इति । निर्विकल्पः शुद्धचिद्रूपः । तथेति निर्वि-
कल्पा महानन्दमयी च । अत एव स्तुसे समुचितत्वादनुरूपा ॥४॥
भवदावेशतः पश्यन् भावं भावं भवन्मयम् ।
विचरेयं निराकाङ्क्षः प्रहर्षपरिपूरितः ॥ ५ ॥
 
भवदिति । भावं भावमिति वीप्सया विश्वाक्षेपः । निराकाङ्क्ष
इति विशेषणद्वारको हेतुः महर्षेसादिः । मकृष्टेन महानन्दात्मना
हर्षेण परिपूरितत्वादेव हि निराकाङ्क्षता भवति ॥ ५ ॥
 
भगवन्भवता पूर्ण पश्येयमखिलं जगत् ।
ताव तैवास्मि सन्तुष्टस्ततो न परिखिद्यसे ॥६॥
भगवन्निति । भवतश्चिन्मयस्य सम्बन्धितया प्रदेशोऽपि
ब्रह्मणः सार्वरूप्यमनतिक्रान्तश्चाविकल्पश्चेति स्थियाऽखिलं
जगत् पूर्ण पश्येयम् । भवता पूर्णमितिपाठे तु स्पष्टोऽर्थः । सन्तुष्टः
 
CC-0 Pulwama Collection. Digitized by eGangotri