This page has been fully proofread once and needs a second look.

स्वबलानेदेशनाख्यं पञ्चमं स्तोत्रम् ।
 
समावेशैकघनः स्यामिति यावत् ॥ २५ ॥

 
किमपि नाथ कदाचन चेतसि
 

स्फुरति तद्भवदंघिघ्रितलस्पृशाम् ।

गलति यत्र समस्तमिदं सुधा-

सरसि विश्वमिदं दिश मे सदा ॥ २६ ॥
 

 
किमपीति । हे नाथ भवदतिङ्ग्रितलस्पृशां त्वच्छक्ति स्पर्शशा-
लिनां । कदा चिदवसरे । तत्किमपि असामान्य वस्तु चेतसि
स्फुरति यत्र समस्तमिदं विश्वं परमानन्दसागरे गलति तन्मयी-
भवति । तत्तथाविधमिदं वस्तु मह्यं सदा दिश प्रयच्छ । यथा
नित्यसमावेशानन्दघन एव भवामि इति शिवम् ॥ २६ ॥
 

 
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ स्वबलनिदेशनाभिधाने

पञ्चमस्तोत्रे श्रीक्षेमराजकृता विवृतिः ॥
 

 
ॐ तत्सत् ॐ

 
४५
 

 
क्षणामात्रमपीशान वियुक्तस्य त्वया मम ।

निबिडं तप्यमानस्य सदा भूया दृशः पदम् ॥१॥
 

 
क्षणमात्रमिति । व्युत्थानरूपे क्षणमात्रवियोगे । गाढानुराग-
वैवश्यान्निविडमस- मत्यर्थं तप्यमानस्य स्वयमेव सन्तापमनुभावयतो
न तु विषयविवशस्य । मम सदा दृशो ज्ञानस्य । पदं भूयाः
परिस्फुरेत्यर्थः ॥ १ ॥
 

 
वियोगसारे संसारे प्रियेण प्रभुणा त्वया ।

वियुक्तः सदैव स्यां जगताऽपि वियोजितः ॥ २ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri