2023-02-27 05:36:10 by ambuda-bot
This page has not been fully proofread.
स्वबलानेदेशनाख्यं पञ्चमं स्तोत्रम् ।
समावेशैकघनः स्यामिति यावत् ॥ २५ ॥
किमपि नाथ कदाचन चेतसि
स्फुरति तद्भवदंघितलस्पृशाम् ।
गलति यत्र समस्तमिदं सुधा-
सरसि विश्वमिदं दिश मे सदा ॥ २६ ॥
किमपीति । हे नाथ भवदतिलस्पृशां त्वच्छक्ति स्पर्शशा-
लिनां । कदा चिदवसरे । तत्किमपि असामान्य वस्तु चेतसि
स्फुरति यत्र समस्तमिदं विश्वं परमानन्दसागरे गलति तन्मयी-
भवति । तत्तथाविधमिदं वस्तु मह्यं सदा दिश प्रयच्छ । यथा
नित्यसमावेशानन्दघन एव भवामि इति शिवम् ॥ २६ ॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ स्वबलनिदेशनाभिधाने
पञ्चमस्तोत्रे श्रीक्षेमराजकृता विवृतिः ॥
ॐ तत्सत् ॐ
ॐ
४५
क्षणमात्रमपीशान वियुक्तस्य त्वया मम ।
निबिडं तप्यमानस्य सदा भूया दृशः पदम् ॥१॥
क्षणमात्रमिति । व्युत्थानरूपे क्षणमात्रवियोगे । गाढानुराग-
वैवश्यान्निविडमसर्थ तप्यमानस्य स्वयमेव सन्तापमनुभावयतो
न तु विषयविवशस्य । मम सदा दृशो ज्ञानस्य । पदं भूयाः
परिस्फुरेयर्थः ॥ १ ॥
वियोगसारे संसारे प्रियेण प्रभुणा त्वया ।
वियुक्तः सदैव स्यां जगताऽपि वियोजितः ॥ २ ॥
CC-0 Pulwama Collection. Digitized by eGangotri