This page has been fully proofread once and needs a second look.

शिवस्तोत्राल्याम् ।
 
न्निति स्वानुभवक वैकसाक्षिके अनुत्तरे । भूयो नामग्रहणं समावेशवै-
वश्यं ध्वनति । कमपीति अलौकिकम् ॥ २३ ॥
 

 
स्फुरदनन्तचिदात्मकविष्टपे

परिनिपीतसमस्तजड़ाध्वनि ।
 

अगणितापरचिन्मयगण्डिके
 

प्रविचेरयमहं भवतोऽर्चिता ॥ २४ ॥
 
P
 

 
स्फुरदिति । स्फुरत् अनन्तमपरिच्छिन्नं यच्चिदात्मकं विष्टपं
भुवनं विश्व विश्रान्तिस्थानं तत्र । कीदृशे - परितः समन्तान्त्रिनिपीतः
समस्तो निःशेषो जडो वेद्यरूपो ध्वान्तत्वादिप्रसरो येन । तथा
न गणिता अपरा चिन्मयी गण्डिका पुरी यत्र । शिवात्मकचिद्रू-
पव्यतिरेकेणान्यस्याभावात् । अनेन भिन्नशिववाद निरासउक्तः ।
तत्र प्रकर्षेण विचरेयं समावेशेन प्रसरेयं । कीदृक् । भवतः प्रभोर-
र्चिता अद्वयरूपत्वत्पूजैकनिष्ठः ॥ २४ ॥

 
स्ववपुषि स्फुटभासिनि शाश्वते

स्थितिकृते न किमप्युपयुज्यते ।

इति मतिः सुदृढा भवतात् परं
 

मम भवच्चरणाब्जरजःशुचेः ॥ २५ ॥
 
स्त्र

 
स्व
वपुषीति । स्वस्मिन् अनपायिनि वपुषि चिदात्मस्वरूपे ।
स्फुटभासिनि प्रकाशघने । शाश्वते निसेत्ये । स्थितिं कर्तुं न किमपि
ध्यानजपादि- कमुपयुज्यते उक्तरूपत्वादेव । एतादृशी । मम भवच्चर-
णाम्बुजरजःशुचेः त्वच्छक्तिकमलप्रसरपरिशीलनेन शुद्धस्य । मुह-
सुदृढा मतिः निश्चलनिश्चयरूपा धीः । परमतिशयेन भवेत् । नित्योदित-
CC-0 Pulwama Collection. Digitized by eGangotri