This page has been fully proofread once and needs a second look.

स्वबलनिदेशनाख्यं पञ्चमं स्तोत्रम् ।
 
४३
 
क्वन्विति । मम हृदयं विरोधरसिकं समावेशे त्वत्परं व्यु-
त्थाने तु विषयोन्मुखं । हितं बोधय विवेकितं कुरु येन व्युत्थाने
रागादिरसिकतां त्यत्त्का त्वदनुरक्तमेवास्ते ॥ २० ॥
 

 
विचरन्योगदशास्वपि विषयव्यावृत्तिवर्त्तमानोऽपि ।

त्वच्चिन्तामदिरामदतरलीकृतहृदय एव स्याम् ॥ २१॥
 

 
विचरन्निति । योगदशाः भूमिकाज्ञानानि । विषयेभ्यो व्याट-
वृत्तयः इन्द्रियेभ्यः प्रसात्याहाराः । तत्र वर्तमानः । त्वच्चिन्ता त्वत्प्राप्ति-
रेव
मदिरामदः । तेन तरलीकृतं सात्याजितमितभूमिकाप्ररूढि क्षीव-
स्येव घूर्णमानं, निजचमत्कार- व्यतिरेकेण कुत्र चिदपि भूमिका-
ज्ञानादावरोहत् हृदयं यस्य, तादृगेव स्याम् । अपिशब्देन प्रसङ्गा-
पतितत्वेन अनादरणीयतामाह ॥ २१ ॥
 

 
वाचि मनोमतिषु तथा शरीरचेष्टासु करणारचितासु ।

सर्वत्र सर्वदा मे पुरःसरो भवतु भक्तिरसः ॥ २२॥
 

 
वाचीति । मनोमतयः कल्पनाप्रधाना धियः । करणरचितामु
 
सु बुद्धि- कर्मेन्द्रिय कार्यासु । दर्शनश्रवणादिपूर्वकत्वात्सर्वप्रवृत्तीनां ।
सर्वत्र सर्वा वस्थासु । पुरःसर आदावेव स्फुरन् । भक्तिरसः समा-
वेशचमत्कारः ॥ २२
 

 
शिव शिव शिवेति नामनि
 

तव निरवधि नाथ जप्यमानेऽस्मिन ।
न् ।
स्वादयन भवेयं
 

कमपि महारसमपुनरुक्तम् ॥ २३ ॥

 
शिवेति । जप्यमाने प्रकृष्टमन्त्रमयतया परामृश्यमाने। अस्मि-
CC-0 Pulwama Collection. Digitized by eGangotri