This page has been fully proofread once and needs a second look.

शिवस्तोत्रावल्याम्
 
त्मनः शिवरूपस्योल्लास एवं प्रकृतं रूपं यस्य तथाविधं जगत्
विश्वं पश्यन्, भक्तिरसायोभोगैः समावेशमवप्रबलचमत्कारैः अवियो-
"
जितः स्याम् । "तमनित्येषु भोगेषु योजयन्ति विनायकाः" इसा-
त्याम्नायस्थितात्या मा कदा चित् स्वात्माभिमानविनायको भक्त्य-
न्तरायं मे कार्षीदिति यावत् ॥ १६ ॥
 

 
आकाङ्क्षणीयम
परं येन नाथ न विद्यते ।
 

तव तेनाऽद्वितीयस्य युक्तं यत्परिपूर्णाता ॥१७॥

 
आकाङ्क्षणीयमिति । सर्वतो निराकाङ्क्षत्वात्त्वमेव परिपूर्ण
त्यर्थः ॥ १७ ॥
 

 
हस्यते नृत्यते यत्र रागद्वेषादि भुज्यते ।

पीयते भक्तिपीयूषरसस्तत्प्राप्नुयां पदम् ॥१८॥
 

 
हस्यत इति । नृत्यते अन्तः प्रहर्षभरेण देहादिप्रमातृता दो
धू
घूयते । भुज्यते ग्रस्यते रागद्वेषादीत्यनेन पुर्यष्टकप्रमातृताया गु-
णीभावउक्तः । पीयते चमत्क्रियते भक्तिपीयूरसः समावेशानन्द-
प्रसरः । सर्वस्य च हासनृत्यप्रधानभोजनपानक्रिया स्पृहणीया सा
त्विह अलौकिकत्वेनोक्ता ॥ १८ ॥
 

 
तत्तदपूर्वामोदत्वञ्च्चिन्ताकुसुमवासना दृढताम् ।

एतु मम मनसि यावन्नश्यतु दुर्वासनागन्धः ॥१९॥
 

 
तत्तदिति । स स इति विचित्रः, अपूर्वोऽलौकिकः, आमोदो
हर्षो यस्याः त्वच्चिन्तायाः, सैव स्पृहणीयत्वात्कुसुमवासना । दृढतां
प्ररूढत्वं । ममैतु मनसि । यावद्रागादिदुर्वासना नश्यतु ॥ १९ ॥

 
क्व नु रागादिषु रागः क्व च हरचरणाम्बुजेषु रागित्वम् ।

इत्थं विरोधरसिकं बोधय हितममर मे हृदयम् ॥ २० ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri