This page has not been fully proofread.

शिवस्तोत्रावल्याम्
 
त्मनः शिवरूपस्योल्लास एवं प्रकृतं रूपं यस्य तथाविधं जगत्
विश्वं पश्यन्, भक्तिरसायोगैः समावेशमवलचमत्कारैः अवियो-
"जितः स्याम् । "तमनियेषु भोगेषु योजयन्ति विनायकाः" इसा-
नायस्थिता मा कदा चित् स्वात्माभिमानविनायको भक्त्य-
न्तरायं मे कार्षीदिति यावत् ॥ १६ ॥
 
परं येन नाथ न विद्यते ।
 
तव तेनाऽद्वितीयस्य युक्तं यत्परिपूर्णता ॥१७॥
आकाङ्क्षणीयमिति । सर्वतो निराकाङ्क्षत्वात्त्वमेव परिपूर्ण
इसर्थः ॥ १७ ॥
 
हस्यते नृत्यते यत्र रागद्वेषादि भुज्यते ।
पीयते भक्तिपीयूषरसस्तत्प्राप्नुयां पदम् ॥१८॥
 
हस्यत इति । नृयते अन्तः महर्षभरेण देहादिप्रमातृता दो
धूयते । भुज्यते ग्रस्यते रागद्वेषादीसनेन पुर्यष्टकममातृताया गु-
णीभावउक्तः । पीयते चमत्क्रियते भक्तिपीयूपरसः समावेशानन्द-
प्रसरः । सर्वस्य च हासनृसप्रधानभोजनपानक्रिया स्पृहणीया सा
त्विह अलौकिकत्वेनोक्ता ॥ १८ ॥
 
तत्तदपूर्वामोदत्वञ्चिन्ताकुसुमवासना दृढताम् ।
एतु मम मनसि यावन्नश्यतु दुर्वासनागन्धः ॥१९॥
 
तत्तदिति । स स इति विचित्रः, अपूर्वोऽलौकिकः, आमोदो
हर्षो यस्याः त्वच्चिन्तायाः, सैव स्पृहणीयत्वात्कुसुमवासना । दृढतां
प्ररूढत्वं । ममैतु मनसि । यावद्रागादिदुर्वासना नश्यतु ॥ १९ ॥
क्व नु रागादिषु रागः क्व च हरचरणाम्बुजेषु रागित्वम् ।
इत्थं विरोधरसिकं बोधय हितममर मे हृदयम् ॥ २० ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri