This page has been fully proofread once and needs a second look.

निवेदितमुपादत्स्व रागादि भगवन्मया ।
आदायचामृतीकृत्य भुङ्क्ष्व भक्तजनैः समम् ॥ १३ ॥
 
निवेदितमिति । हे भगवन् चिन्मयस्वात्मन् । आसंसारं यत् मयार्जितं रागादि, तद्वित्तशाट्यविवर्जनया निवेदितं त्वय्यर्पितं, निःशेषेण वेदितं चेति । तत्स्वरूपमुपादत्स्व गृहाण स्वप्रकाशात्मतामधिष्ठाय समीपे कुरु । अमृतीकृत्येति परशक्तिस्पर्शामृतेन आप्लाव्य । भक्तजनैः सममित्युक्त्या स्वसमावेशतासमये समस्तभक्तानामपि तन्मयतामाशंसति ॥ १३ ॥
 
अशेषभुवनाहारनित्यतृप्तः सुखासनम् ।
स्वामिन् गृहाण दासेषु प्रसादालोकनक्षणम् ॥१४॥
 
अशेषेति । हे स्वामिन् अशेषभुवनाहारेण नित्यतृप्तः परमानन्दघन: । दासेषु व्याख्यातरूपप्रसादालोकनावसरं गृहाण प्रकाशार्हत्वमधिष्ठापय । कीदृशं-सुखेन आस्यते यत्र तत् आनन्दव्याप्तिमयम् ॥ १४ ॥
 
अन्तर्भक्तिचमत्कारचर्वणामीलितेक्षणः ।
नमो मह्यं शिवायेति पूजयन् स्यां तृणान्यपि ॥१५॥
 
अन्तर्भक्तीति । अन्तः पूर्णाहन्तायां भक्तिचमत्कारामीलितेक्षण इति प्राग्वत् । मह्यं चिद्रूपाय शिवाय नमः इति कृत्वा तृणान्यपि पूजयन् स्यां शिवतया परामृशेयम् ॥ १५ ॥
 
अपि लब्धभवद्भावः स्वात्मोल्लासमयं जगत् ।
पश्यन् भक्तिरसाभोगैर्भवेयमवियोजितः ॥१६॥
 
अपीति । लब्धो भवद्भावः त्वदैकात्म्यं येन । अत एव स्वा-