This page has been fully proofread once and needs a second look.

स्वबलानिदेशनाख्यं पञ्चमं स्तोत्रम् ।
 
निवेदितमुपादत्स्व रागादि भगवन्मया ।
दया

आदायचा
मृती कृत्य भुङ्क्ष्व भक्तजनैः समम् ॥ १३ ॥
 
४१
 

 
निवेदितमिति । हे भगवन् चिन्मयस्त्रावात्मन् । आसंसारं यत्
मयार्जितं रागादि, तद्वित्तशाट्यविवर्जनया निवेदितं त्वय्यर्पितं,
निःशेषेण वेदितं चेति । तत्स्वरूपमुपादत्स्व गृहाण स्वप्रकाशा-
त्मतामधिष्ठाय समीपे कुरु । अमृतीकृत्येति परशक्तिस्पर्शामृतेन
आप्लाव्य । भक्तजनैः सममित्युक्त्या स्वसमावेशतासमये समस्त-
भक्तानामपि तन्मयतामाशंसति ॥ १३ ॥
 

 
अशेषभुवनाहारनित्यतृप्तः सुखासनम् ।

स्वामिन् गृहाण दासेषु प्रसादालोकनक्षणम् ॥१४॥

 
अशेषेति । हे स्वामिन् अशेषभुवनाहारेण नित्यतृप्तः परमा-
नन्दघन: । दासेषु व्याख्यातरूपप्रसादालोकनावसरं गृहाण
प्रकाशार्हत्वमधिष्ठापय । कीदृशं-मुसुखेन आस्यते यत्र तत् आन-
न्दव्याप्तिमयम् ॥ १४ ॥
 
अन्तर्भक्ति

 
अन्तर्भक्ति
चमत्कारचर्वणामीलितेक्षणः ।

नमो मह्यं शिवायेति पूजयन् स्यां तृणान्यपि ॥१५॥
 

 
अन्तर्भक्तीति । अन्तः पूर्णाहन्तायां भक्तिचमत्कारामीलि-
तेक्षण इति प्राग्वत् । मह्यं चिद्रूपाय शिवाय नमः इति कृत्वा तृ-
णान्यपि पूजयन् स्यां शिवतया परामृशेयम् ॥ १५ ॥
 

 
अपि लब्धभवद्भावः स्वात्मोल्लासमयं जगत् ।

पश्यन् भक्तिरसाभोगैर्भवेयमवियोजितः ॥१६॥

 
अपीति । लब्धो भवद्भावः त्वदैकात्म्यं येन । अत एव स्वा-
CC-0 Pulwama Collection. Digitized by eGangotri