This page has not been fully proofread.

स्वबलानिदेशनाख्यं पञ्चमं स्तोत्रम् ।
 
निवेदितमुपादत्स्व रागादि भगवन्मया ।
दयामृती कृत्य भुङ्क्ष्व भक्तजनैः समम् ॥ १३ ॥
 
४१
 
निवेदितमिति । हे भगवन् चिन्मयस्त्रात्मन् । आसंसारं यत्
मयार्जितं रागादि, तद्वित्तशाट्यविवर्जनया निवेदितं त्वय्यर्पितं,
निःशेषेण वेदितं चेति । तत्स्वरूपमुपादत्स्व गृहाण स्वप्रकाशा-
मतामधिष्ठाय समीपे कुरु । अमृतीकृति परशक्तिस्पर्शामृतेन
आप्लाव्य । भक्तजनैः सममित्युक्त्या स्वसमावेशतासमये समस्त-
भक्तानामपि तन्मयतामाशंसति ॥ १३ ॥
 
अशेषभुवनाहारनित्यतृप्तः सुखासनम् ।
स्वामिन् गृहाण दासेषु प्रसादालोकनक्षणम् ॥१४॥
अशेषेति । हे स्वामिन् अशेषभुवनाहारेण नियतृप्तः परमा-
नन्दघन: । दासेषु व्याख्यातरूपप्रसादालोकनावसरं गृहाण
प्रकाशार्हत्वमधिष्ठापय । कीदृशं-मुखेन आस्यते यत्र तत् आन-
न्दव्याप्तिमयम् ॥ १४ ॥
 
अन्तर्भक्ति चमत्कारचर्वणामीलितेक्षणः ।
नमो मह्यं शिवायेति पूजयन् स्यां तृणान्यपि ॥१५॥
 
अन्तर्भक्तीति । अन्तः पूर्णाहन्तायां भक्तिचमत्कारामीलि-
तेक्षण इति प्राग्वत् । मह्यं चिद्रपाय शिवाय नमः इति कृत्वा तृ-
णान्यपि पूजयन् स्यां शिवतया परामृशेयम् ॥ १५ ॥
 
अपि लब्धभवद्भावः स्वात्मोल्लासमयं जगत् ।
पश्यन् भक्तिरसाभोगैर्भवेयमवियोजितः ॥१६॥
अपीति । लब्धो भवद्भावः त्वदैकात्म्यं येन । अत एव स्वा-
CC-0 Pulwama Collection. Digitized by eGangotri