This page has been fully proofread once and needs a second look.

समुल्लसन्त्विति । मरीचयः अनुग्राहिकाः शक्तयः । विकसतु व्याप्ति- मासादयतु । तव पूजनाय त्वत्पदसमावेशाय ॥ ८ ॥
 
प्रसीद भगवन् येन त्वत्पदे पतितं सदा ।
मनो मे तत्तदास्वाद्य क्षीवेदिव गलेदिव ॥ ९ ॥
 
प्रसीदेति । प्रसादोंभस इव स्वयमेवाविलीभावशान्त्या नैर्मल्यगमनं । एवमुत्तरत्र । त्वत्पदे शाक्ते मार्गे, पतितं लुठितं, तत्तदिति ते ते लोचनइति यद्वर्णयितुमशक्यतां स्कीततां चास्वाद्य वस्तुतो ध्वनति । क्षीवेदिव गलेदिव इति ससन्देहोत्प्रेक्षया सम्भावनालिङा च स्वानुभवसाक्षिकानुत्तरानन्दरस- परवशताशंसां ध्वनति ॥९॥
 
प्रहर्षाद्वाऽथ शोकाद्वा यदि कुड्याद्धटादपि ।
बाह्यादथान्तराद्भावात्प्रकटीभव मे प्रभो ॥ १० ॥
 
महर्षादिति । वा प्रभृतिशब्दैः यतः कुतश्चित्स्फुटीभव नास्माकं कचिद्ग्रहः इत्याह । प्रभो सर्वतः प्रभवनशील ॥ १० ॥
 
बहिरप्यन्तरपि तत्स्यन्दमानं सदाऽस्तु मे ।
भवत्पादाम्बुजस्पर्शामृतमत्यन्तशीतलम् ॥ ११ ॥

बहिरपीति । पादाम्बुजं शीतलमिति प्राग्वत् ॥ ११ ॥
 
त्वत्पादसंस्पर्शसुधासरसोन्तर्निमज्जनम् ।
कोप्येष सर्वसम्भोगलङ्घी भोगोऽस्तु मे सदा ॥ १२ ॥
 
त्वत्पादसंस्पर्श इति । त्वत्पादसंस्पर्शो रुद्रशक्तिसमावेशः । स एव सुधासरः रसायनाब्धिः । तत्र अन्तर्निमज्जनं ब्रुडनं यत्,एष मम कोऽपि असामान्यः भोगः सदाऽस्तु । कीदृक् । सर्वान् सदाशिवपर्यन्तान् भोगान् लङ्घते विरसत्वादभिभवति, तच्छीलः ॥ १२॥