This page has not been fully proofread.

शिवस्तोत्रावल्याम
 
समुल्लसन्त्विति । मरीचयः अनुग्राहिकाः शक्तयः । विकसतु
व्याप्तिमासादयतु । तव पूजनाय त्वत्पदसमावेशाय ॥ ८ ॥
 
प्रसीद भगवन् येन त्वत्पदे पतितं सदा ।
मनो मे तत्तदास्वाद्य क्षीवेदिव गलेदिव ॥ ९ ॥
प्रसीदेति । प्रसादोंभस इव स्वयमेवाविलीभावशान्या नैर्म-
ल्यगमनं । एवमुत्तरत्र । त्वत्पदे शाक्ते मार्गे, पतितं लुठितं, तत्तदिति
ते ते लोचनइति यद्वर्णयितुमशक्यतां स्कीततां चास्वाद्य वस्तुतो
ध्वनति । क्षीवेदिव गलेदिव इति ससन्देहोत्प्रेक्षया सम्भावनालिङा
च स्वानुभवसाक्षिकानुत्तरानन्दरसपरवशताशंसां ध्वनति ॥९॥
प्रहर्षाद्वाऽथ शोकाद्वा यदि कुड्याद्रटादपि ।
बाह्यादथान्तराद्भावात्प्रकटीभव मे प्रभो ॥ १० ॥
 
महर्षादिति । वा प्रभृतिशब्दैः यतः कुतश्चित्स्फुटीभव ना-
स्माकं कचिद्रहः इसाह । प्रभो सर्वतः प्रभवनशील ॥ १० ॥
बहिरप्यन्तरपि तत्स्यन्दमानं सदाऽस्तु मे ।
भवत्पादाम्बुजस्पर्शामृतमत्यन्तशीतलम्
बहिरपीति । पादाम्बुजं शीतलमिति माग्वत् ॥ ११ ॥
त्वत्पादसंस्पर्शसुधासरसोन्तर्निमज्जनम् ।
कोप्येष सर्वसम्भोगलङ्गी भोगोऽस्तु मे सदा ॥ १२ ॥
 
॥११॥
 
त्वत्पादसं स्पर्श इति । त्वत्पादसंस्पर्शो रुद्रशक्ति समावेशः । स
एव सुधासरः रसायनाब्धिः । तत्र अन्तर्निमज्जन ब्रुडनं यत्,
मम कोऽपि असामान्यः भोगः सदाऽस्तु । कीदृक् । सर्वान् सदा-
एष
 
शिवपर्यन्तान् भोगान् लङ्घते विरसत्वादभिभवति, तच्छीलः ॥ १२॥
 
CC-0 Pulwama Collection. Digitized by eGangotri