This page has been fully proofread once and needs a second look.

३८
 
शिवस्तोत्राल्याम् ।
 
ॐ त्वत्पादपद्मसम्पर्कमात्रसम्भोगसङ्गिनम् ।

गलेपादिकया नाथ मां स्ववेश्म प्रवेशय ॥ १ ॥

 
ॐ त्वदिति । पादाः मरीचयः । सम्पर्कमात्र सम्भोगः समा-
वेशास्वादः । गलेपादिका हठशक्तिपातक्रमः । स्ववेश्म चित्स्व -
रूपं, औचिसात्यात् ॥ १ ॥
 

 
भवत्पादाम्बुजरजोराजिरञ्जितमूर्धजः ।
 

अपाररभसाऽऽ
रब्धर्तनः स्यामहं सदा ॥ २ ॥
 

 
भवदिति । भवदीयेन पादाम्बुजरजसा ऽनुग्रहप्रवृत्तपरश
क्तिकमलपरागेण । रञ्जितमूर्जः अधिवासितान्तः । प्रसरदुर्ध्वा-
ष्टशक्तयंकुरः । तत एव प्रहर्षवशादपारमपर्यन्तं, रभसाऽऽरब्धं
क्ष
गिति प्रवर्तितं नर्तनं गात्रविक्षेपो मायाप्रमातृताविधूननं येन ।
 
नित्यसमावेशविकस्वरतामाशास्ते ॥ २ ॥
 

 
त्वदेकनाथो भगवन्नियदेवार्थये सदा ।
 

त्वदन्तर्वसतिर्मूको भवेयं माऽन्यथा बुधः ॥ ३ ॥
स्

 
त्
वदेकनाथ इति । इयदेव नापरमर्थये । यत्त्वमेवैको नाथो ना-
ध्
थ्यमानः समभिलणीयो यस्य सः । त्वदन्तर्वसतिश्चिद्धनत्वत्स्व -
रूपसमाविष्टो मूकोऽपि स्याम् । अन्यथा बुधोऽपि विद्वानपि
माभूवम् ॥ ३ ॥
 

 
अहो सुधानिधे स्वामिन् अहो मृष्ट त्रिलोचन ।

हो खास्वादो विरूपाक्षेत्येव नृत्येयमारटन् ॥ ४ ॥

 
अहो इति । प्राग्वन्नित्य समाविष्टतामाशास्ते । सुधानिधे आन
न्दाब्धे । मृष्ट चमत्कारपदपतित । स्वादो अविच्छिन्नमाधुर्य । नृसे-
त्येयमिति प्राग्वत् । आरटन् स्फुटं परामृशन् ॥ ४ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri