This page has been fully proofread once and needs a second look.

त्रमाह न न्यायत इति । यस्यैवमेव मायीयोपायं विना शिवाभासः शिवरूपस्वात्मप्रथा स्यात्तं भक्त्यैव समावेशमय्या शालिनं श्लाघमानं न तु तदतिरिक्तफलाकांक्षाकलङ्कितं भक्तजनं नमो भक्तिचमत्कारवशप्रथित- शिवभट्टारकाभेदभक्तिमन्नतिमुखेन तदभिन्नशिवावेशमया भवाम इति यावत् । "एवमेवे"त्यनेन सूचितमलौकिकक्रमं दर्शयति "न ध्यायत" इत्या- दिना । सर्वस्य हि ध्यानजप प्रमुखं ध्येयजप्यस्वरूपं नियताकारमेव प्रथते, भक्तिशालिनस्त्वनुपायमेव निराकारं सर्वाकारं चिदानन्दघनं शिवात्म- स्वरूपं सर्वदा स्फुरति । अत एवाह "अविधिपूर्वक" मिति । विधीयत इति विधिरिज्याध्ययनादिः पूर्वः कारणं यत्र । तथाकृत्वा सर्वविधीनां संकुचित- त्वादसंकुचितस्वरूपं प्रत्युपायत्वाभावात् तत्त्वसमावेशधनैरेव प्रतिभा- प्रसादनप्रमुखमाप्यते । यथोक्तम् श्रीपूर्वशास्त्रे "न चात्र विहितम् किञ्चि" दित्यादि, "अकिञ्चिच्चिन्तकस्ये"त्यादि, गीतास्वपि "मय्यावेश्ये"त्यादिकं । ध्यानजपाभ्यांप्रकाशविमर्शस्वरूपाभ्यां पूजनहवनादि सर्वे संगृहीतमिति प्राधान्यात्तावेवेहोक्तौ ॥ १ ॥
 
आत्मा मम भवद्भक्तिसुधापानयुवाऽपि सन् ।
लोकयात्रारजोरागात्पलितैरिव धूसरः ॥२॥
 
"आत्मे"ति । हे महेश्वर ममात्मा जीवो भवद्भक्तिसुधापामेन युवा समुत्तेजित सहजौजःप्रकषोऽपि सँल्लोकयात्रयैव रजसा लोकव्यवहारधूल्या कृतो यो राग उपरागस्ततो हेतोर्यानि पीलतानि जराप्रकारास्तैर्धूसरो विच्छाय इव न तु वस्तुवृतेन, भक्तिसुधापानेन नित्यतरुणीकृतत्वात्, यथा च तरुणस्य
धूलिधूसरतया सञ्जातपलितमिव दृश्यमानं नान्तर्म्लानिं मनागप्या-