This page has been fully proofread once and needs a second look.


 
शिवस्तोत्रावल्याम् ।
 
त्रमाह न न्यायत इति । यस्यैवमेव मायीयोपायं विना शिवा-
भासः शिवरूपस्वात्मप्रथा स्यात्तं भक्त्यैव समावेशमय्या शालिनं
श्लाघमानं न तु तदतिरिक्त फलाकांक्षाकलङ्कितं भक्तजनं नमो
भक्तिचमत्कारवशप्रथित- शिवभट्टारकाभेदभक्तिमन्नतिमुखेन तद्-
भिन्नशिवावेशमया भवाम इति यावत् । "एवमेवे"त्यनेन सूचितमलौ-
किकक्रमं दर्शयति "न ध्यायत" इत्या- दिना । सर्वस्य हि ध्यानजप
प्रमुखं ध्येयजव्प्यस्वरूपं नियताकारमेव प्रथते, भक्तिशालिनस्त्वनु -
पायमेव निराकारं सर्वाकारं चिदानन्दघनं शिवात्म- स्वरूपं सर्वदा
स्फुरति । अत एवाह "अविधिपूर्वक" मिति । विधीयत इति विधि-
रिज्याध्ययनादिः पूर्वः कारणं यत्र । तथाकृत्वा सर्वविधीनां सं-
कुचित- त्वादसंकुचितस्वरूपं प्रत्युपायत्वाभावात् तत्त्वसमावेशध-
नैरेव प्रतिभा- प्रसादनप्रमुखमाप्यते । यथोक्तम् श्रीपूर्वशास्त्रे "न
चात्र विहितम् किञ्चि" दिसात्यादि, "अकिञ्चिच्चिन्तकस्ये"त्यादि,
गीतास्वपि "मय्यावेश्ये"सात्यादिकं । ध्यानजपाभ्यां प्रकाशविमर्श-
स्वरूपाभ्यां पूजनहवनादि सर्वे संगृहीतमिति प्राधान्यात्तावेवे-
होक्तौ ॥ १ ॥
 

 
आत्मा मम भवद्भक्तिसुधापानयुवाऽपि सन् ।

लोकयात्रारजोरागात्पलितैरिव धूसरः ॥२॥
 

 
"आत्मे"ति । हे महेश्वर ममात्मा जीवो भवद्भक्तिमुसुधापामेन
युवा समुत्तेजित सहजौजःप्रर्पोषोऽपि सँल्लोकयात्रयैव रजसा
लोकव्यवहारधूल्या कृतो यो राग उपरागस्ततो हेतोर्यानि
पीलतानि जराप्रकारास्तैर्धूसरो विच्छाय इव न तु वस्तुवृतेन,
भक्तिसुधापानेन नित्यतरुणीकृतत्वात्, यथा च तरुणस्य
धूलि
धूसरतया सञ्जातपलितमिव दृश्यमानं नान्तर्म्लनिलानिं मनागण्प्या-
CC-0 Pulwama Collection. Digitized by eGangotri