This page has been fully proofread once and needs a second look.

न्यस्य शक्तिः । यस्मात्त्वां प्रथमानमेव समावेशे भान्तमेव अवधीर्य न्यग्भाव्य लेशतोऽपि न श्लथते, व्युत्थाने प्राधान्यमेवावलम्बते इत्यर्थः ॥ २४ ॥
 
महताममरेश पूज्यमानो
ऽप्यनिशं तिष्ठसि पूजकैकरूपः ।
बहिरन्तरपीह दृश्यमानः
स्फुरसि द्रष्ट्टशरीर एव शश्वत् ॥ २५ ॥
 
महतामिति । बहिरन्तः पूजाद्यवसरे । आपातभेदेनैव प्रकाशमानत्वात् । पूज्यमानो दृश्यमानश्च, त्वममरेश देवदेव, महतां भक्तिमतां पूजकैकरूपो द्रष्ट्टशरीरश्च, समावेशसामरस्याद्बोधमयप्रमात्रेकरुपस्तिष्ठसि स्फुरसि चेति शिवम् ॥ २५ ॥
 
॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावल्यां सुरसोद्बलनामक-
चतुर्थस्तोत्रे क्षेमराजकृता विवृतिः ॥