This page has been fully proofread once and needs a second look.

सुरसोइलाख्यं चतुर्थ स्तोत्रम् ।
 
३७
 
न्यस्य शक्तिः । यस्मात्त्वां प्रथमानमेव समावेशे भान्तमेव अव
धीर्य न्यग्भाव्य लेशतोऽपि न श्लथते, व्युत्थाने प्राधान्यमेवाव-
लम्बते इत्यर्थः ॥ २४ ॥

 
महताममरेश पूज्यमानो

ऽप्यनिशं तिष्ठसि पूजकैकरूपः ।

बहिरन्तरपीह दृश्यमानः
 

स्फुरसि द्रष्ट्टशरीर एव शश्वत् ॥ २५ ॥

 
महतामिति । बहिरन्तः पूजाद्यवसरे । आपातभेदेनैव प्रकाश-
मानत्वात् । पूज्यमानो दृश्यमानश्च, त्वममरेश देवदेव, महतां
भक्तिमतां पूजकैकरूपो द्रष्ट्टशरीरश्च, समावेश सामरस्याद्वोबोधमय-
प्रमात्रेकरुपस्तिष्ठसि स्फुरसिंसि चेति शिवम् ॥ २५ ॥
 

 
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावल्यां सुरसोद्लनामक-

चतुर्थस्तोत्रे क्षेमराजकृता विवृतिः ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri