This page has not been fully proofread.

सुरसोइलाख्यं चतुर्थ स्तोत्रम् ।
 
३७
 
न्यस्य शक्तिः । यस्मात्त्वां प्रथमानमेव समावेशे भान्तमेव अव
धीर्य न्यग्भाव्य लेशतोऽपि न श्लथते, व्युत्थाने प्राधान्यमेवाव-
लम्बते इत्यर्थः ॥ २४ ॥
महताममरेश पूज्यमानो
ऽप्यनिशं तिष्ठसि पूजकैकरूपः ।
बहिरन्तरपीह दृश्यमानः
 
स्फुरसि द्रष्टशरीर एव शश्वत् ॥ २५ ॥
महतामिति । बहिरन्तः पूजाद्यवसरे । आपातभेदेनैव प्रकाश-
मानत्वात् । पूज्यमानो दृश्यमानश्च, त्वममरेश देवदेव, महतां
भक्तिमतां पूजकैकरूपो द्रष्टशरीरश्च, समावेश सामरस्याद्वोधमय-
ममात्रेकरुपस्तिष्ठसि स्फुरसिं चेति शिवम् ॥ २५ ॥
 
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावल्यां सुरसोद्वलनामक-
चतुर्थस्तोत्रे क्षेमराजकृता विवृतिः ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri