This page has been fully proofread once and needs a second look.

यत्र सोऽस्तमयमेति विवस्वाँ-
श्चन्द्रमःप्रभृतिभिः सह सर्वैः ।
काऽपि सा विजयते शिवरात्रिः
स्वप्रभाप्रसरभास्वररूपा ॥ २२ ॥
 
यत्रेति । सा कापि लोकोत्तरा शिवरात्रि: शिवसमावेशभूमिः । समस्त- मायीयप्रथायाः संहरणाद्रात्रिरिव रात्रिः । कीदृशी, स्वप्रभाप्रसरेण चित्प्रकाशजृम्भणेन भासनशीलं रूपं यस्याः, तादृशी । स इसशेषप्रपञ्च- प्रथमाङ्कुरः विवस्वान् प्राणः । चन्द्रमःप्रभृतिभिरपानादिभिः सहाऽस्तमेति प्रशाम्यति । यदि वा । विवस्वान् प्रमाणप्रकाशः । चन्द्रमःमभृतयः प्रमेयादयः ॥ २२ ॥
 
अप्युपार्जितमहं त्रिषु लोके-
ष्वाधिपत्यममरेश्वर मन्ये ।
नीरसं तदखिलं भवदङ्घ्रि-
स्पर्शनामृतरसेन विहीनम् ॥ २३ ॥
 
अपीति । त्रैलोक्यराज्यमपि त्वन्मरीचिसंस्पर्शं विना विरसं मन्ये ॥ २३ ॥
 
बत नाथ दृढोयमात्मबन्धो
भवदख्यातिमयस्त्वयैव क्लृप्तः ।
यदयं प्रथमानमेव मे त्वा-
मवधीर्य श्लते न लेशतोऽपि ॥ २४ ॥
 
बतेति । आश्चर्ये अयमात्मबन्धो देहादिषु प्रमातृताभिमानः त्वदप्रथारूपः । त्वयैव अतिदुर्घटकारिणा दृढः क्लृप्तः । न तु अ-