This page has been fully proofread once and needs a second look.

शिवस्तोत्रावल्याम्
 
यत्र सोऽस्तमयमेति विवस्वाँ-

श्
चन्द्रमःप्रभृतिभिः सह सर्वैः ।

काऽपि सा विजयते शिवरात्रिः
 

स्वप्रभाप्रसरभास्वररूपा ॥ २२ ॥
 

 
यत्रेति । सा कापि लोकोत्तरा शिवरात्रि: शिवसमावेश-
भूमिः । समस्त- मायीयप्रथायाः संहरणाद्वारात्रिरिव रात्रिः । कीदृशी,
स्वम
स्वप्रभाप्रसरेण चित्प्रकाशजृम्भणेन भासनशीलं रूपं यस्याः,
तादृशी । स इसशेषप्रपञ्च- प्रथमाङ्कुरः विवस्वान् प्राणः । चन्द्रमः-
प्रभृतिभिरपानादिभिः सहाऽस्तमेति प्रशाम्यति । यदि वा । विव-
स्वान् प्रमाणप्रकाशः । चन्द्रमःमभृतयः प्रमेयादयः ॥ २२ ॥

 
प्युपार्जितमहं त्रिषु लोके-

ष्वाधिपत्यममरेश्वर मन्ये ।

नीरसं तदखिलं भवदति-
ङ्घ्रि-
स्पर्शनामृतरसेन विहीनम् ॥ २३ ॥

 
अपीति । त्रैलोक्यराज्यमपि त्वन्मरीचिसंस्पर्शं विना विरसं
मन्ये ॥ २३ ॥
 

 
त नाथ दृढोयमात्मबन्धो
 

भवदख्यातिमयस्त्वयैव क्लृप्तः ।

यदयं प्रथमानमेव मे त्वा-

मवधीर्य श्लते न लेशतोऽपि ॥ २४ ॥
 

 
बतेति । आश्चर्ये अयमात्मन्धो देहादिषु प्रमातृताभिमानः
त्वदप्रथारूपः । त्वयैव अतिदुर्घटकारिणा दृढः क्लृप्तः । न तु अ-
CC-0 Pulwama Collection. Digitized by eGangotri