This page has not been fully proofread.

शिवस्तोत्रावल्याम्
 
यत्र सोऽस्तमयमेति विवस्वाँ-
चन्द्रमःप्रभृतिभिः सह सर्वैः ।
काऽपि सा विजयते शिवरात्रिः
 
स्वप्रभाप्रसरभास्वररूपा ॥ २२ ॥
 
यत्रेति । सा कापि लोकोत्तरा शिवरात्रि: शिवसमावेश-
भूमिः । समस्तमायीयप्रथायाः संहरणाद्वात्रिरिव रात्रिः । कीदृशी,
स्वमभाप्रसरेण चित्प्रकाशजृम्भणेन भासनशीलं रूपं यस्याः,
तादृशी । स इसशेषमपञ्चमथमाङ्कुरः विवस्वान् प्राणः । चन्द्रमः-
प्रभृतिभिरपानादिभिः सहाऽस्तमेति प्रशाम्यति । यदि वा । विव-
स्वान् प्रमाणप्रकाशः । चन्द्रमःमभृतयः प्रमेयादयः ॥ २२ ॥
प्युपार्जितमहं त्रिषु लोके-
ष्वाधिपत्यममरेश्वर मन्ये ।
नीरसं तदखिलं भवदति-
स्पर्शनामृतरसेन विहीनम् ॥ २३ ॥
अपीति । त्रैलोक्यराज्यमपि त्वन्मरीचिसंस्पर्श विना विरसं
मन्ये ॥ २३ ॥
 
वत नाथ दृढोयमात्मबन्धो
 
भवदख्यातिमयस्त्वयैव क्लृप्तः ।
यदयं प्रथमानमेव मे त्वा-
मवधीर्य श्लयते न लेशतोऽपि ॥ २४ ॥
 
बतेति । आश्चर्य अयमात्मवन्धो देहादिषु प्रमातृताभिमानः
त्वदप्रथारूपः । त्वयैव अतिदुर्घटकारिणा दृढः क्लृप्तः । न तु अ-
CC-0 Pulwama Collection. Digitized by eGangotri