This page has been fully proofread once and needs a second look.

सुरसोइलाख्यं चतुर्थ स्तोत्रम् ।
तदपि सर्वविदाश्रितवत्सलः
 

किमिदमारटितं न शृणोषि मे ॥ १९ ॥

 
न किलेति । अयं तावज्जनः भेददृष्टिमलीमसत्वात्तव सत्यं
चिद्नं वपुः न पश्यति । तथाऽपि त्वं सर्ववित्सर्वज्ञः, आश्रित-
वत्सलो भक्तानुकूलः, अतएव स्वयमेवोचितस्वात्मदर्शनदाने
ऽपि मे किमिसात्यारटितं आक्रन्दितं न शृणोषि । दर्शनं तावज्झ-
गिति मम आरटितं भक्तिविवशचित्तस्याक्रन्दितमात्रं तु शृण्-

विति प्रार्थयते ॥ १९ ॥
 

 
स्मरसि नाथ कदा चिदपीहितं

विषयसौरव्यमथापि मयाऽर्थितम ।.

सततमेव भवद्पुरीक्षणा-

मृतमभीष्टमलं मम देहि तत् ॥ २० ॥
 

 
स्मरसीति । ईहितं प्रयत्नेनार्जितं अथाप्यर्थितं काङ्क्षित
कदा चिदपि मया विषयसौख्यमिति नाथ स्मरसीति निर्यन्त्र-
णोत्त्या गाढप्रभुपरिचयं ध्वनति । केवलं मम देव भवद्पुरीक्ष-
णामृतं त्वत्स्वरूपप्रकाशनरसायनमलमभीष्टं । तदेव च देहि
 
प्रयच्छ ॥ २० ॥
 

 
किल यदैव शिवाध्वनि तावके

कृतपदोऽस्मि महेश तवेच्छया ।

शुभशतान्युदितानि तदैव मे
 

किमपरं मृगये भवतः प्रभो ॥ २१ ॥

 
किलेति । शिवाध्वनि श्रेयः शतशालिनि । परमे शाक्ते
मार्गे । कृतपदः प्राप्तविश्रान्तिः ॥ २१ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri