This page has been fully proofread once and needs a second look.

शिवस्तोत्रावल्याम
 
सततेति । सततं फुल्लं नियं विकसितं यत्वन्मुखकमलं, "शैवी-
मुख- मिहोच्यते इति" स्थित्या, त्वत्पराशक्तिरूपं यत्पद्यंमं तस्य यदुदरं
मध्यं, परं तावकं परशक्तिसामरस्यमयं शांभवं रूपं, तस्य विलो-
कनं समावेशः, तत्र लालसं सातिशयाभिलाषं चेतो यस्य, तस्य
मे, किमपि तदसम्भाव्यमुपाय-
प्र
दर्शनं, मनागिव हेलामात्रेण कुरु,
येन ममाभिमुखस्थितिः सन् स्फुरसि ॥ १६ ॥

 
त्वदविभेदमतेरपरं न किं

सुखमिहास्ति विभूतिरथाऽपरा ।

तदिह तावकदासजनस्य किं
 
नु
 

कुपथमेति मनः परिहृत्य ताम् ॥ १७ ॥

 
त्वदविभेदमतेरिति । समावेशस्फुरिताया स्त्वदद्वयसंविदः अ-
परं सुखं विभूसात्यादि च न किकिं चिदस्ति । तस्या एव सर्वातिशा-
यित्वात् । ततः किमिति तावकदासजनस्य तां त्वदविभेदसंविदं
परिहृत्य, मनः कुपथमेति व्युत्थानभूमिमेवाऽऽधावति ॥ १७ ॥

 
क्षणमपीह न तावकदासतां
 

प्रति भवेयमहं किल भाजनम् ।

भवदभेदरसासवमादरा-

दविरतं रसयेयमहं न चेत् ॥ १८ ॥
 

 
क्षणमपीति । यदि भवदद्वयानन्दरसासवमहमविरतं नास्वा-
दयेयं, तत्तव दासतां प्रति क्षणमपि भाजनं न भवेयम् । आन-
न्दघनत्वत्स्त्र रूपा- परिचितत्वात् ॥ १८ ॥
 

 
न किल पश्यति सत्यमयं जन-

स्तव वपुर्द्वयदृष्टिमलीमसः ।
 
CC-0 Pulwama Collection. Digitized by eGangotri