2023-02-27 05:36:07 by ambuda-bot
This page has not been fully proofread.
शिवस्तोत्रावल्याम
सततेति । सततं फुल्लं नियं विकसितं यत्वन्मुखकमलं, "शैवी-
मुखमिहोच्यते इति" स्थिया, त्वत्पराशक्तिरूपं यत्पद्यं तस्य यदुदरं
मध्यं, परं तावकं परशक्तिसामरस्यमयं शांभवं रूपं, तस्य विलो-
कनं समावेशः, तत्र लालसं सातिशयाभिलाषं चेतो यस्य, तस्य
मे, किमपि तदसम्भाव्यमुपायमदर्शनं, मनागिव हेलामात्रेण कुरु,
येन ममाभिमुखस्थितिः सन् स्फुरसि ॥ १६ ॥
त्वदविभेदमतेरपरं न किं
सुखमिहास्ति विभूतिरथाऽपरा ।
तदिह तावकदासजनस्य किं
नु
कुपथमेति मनः परिहत्य ताम् ॥ १७ ॥
त्वदविभेदमतेरिति । समावेशस्फुरिताया स्त्वदद्वयसंविदः अ-
परं सुखं विभूसादि च न कि चिदस्ति । तस्या एव सर्वातिशा-
यित्वात् । ततः किमिति तावकदासजनस्य तां त्वदविभेदसंविदं
परिहृस, मनः कुपथमेति व्युत्थानभूमिमेवाऽऽधावति ॥ १७ ॥
क्षणमपीह न तावकदासतां
प्रति भवेयमहं किल भाजनम् ।
भवदभेदरसासवमादरा-
दविरतं रसयेयमहं न चेत् ॥ १८ ॥
क्षणमपीति । यदि भवदद्वयानन्दरसासवमहमविरतं नास्वा-
दयेयं, तत्तव दासतां प्रति क्षणमपि भाजनं न भवेयम् । आन-
न्दघनत्वत्स्त्र रूपापरिचितत्वात् ॥ १८ ॥
न किल पश्यति सत्यमयं जन-
स्तव वपुईयदृष्टिमलीमसः ।
CC-0 Pulwama Collection. Digitized by eGangotri