This page has not been fully proofread.

सुरसोइलाख्यं चतुर्थ स्तोत्रम् ।
 
ले स्फुरन, परं स्वाद्रमृतं स्रवति, यच्चैव विचित्रेण समावेशरस-
सेकेन वर्धितोऽत एवं शतशोप्युदीरितः शङ्करेसयं शब्दः, तिर्य-
गाशयेषु पशुहृदयेष्वपि, नवनवप्रयोजनः प्रतिक्षणं तत्तदपूर्वच -
मत्कारकारी, आविशति परिस्फुरति ॥ १३ ॥ १४ ॥
परिसमाप्तमिवोग्रमिदं जगद्
विगलितोऽविरलो मनसो मलः ।
तदपि नास्ति भवत्पुरगोपुरा-
र्गलकवाटविघट्टनमण्वपि ॥ १५ ॥
 
परिसमाप्तमिवेति । स्फुरत्प्रसग्र समावेशसंस्कारस्य व्युत्था-
नभूमिमवतितीर्पोरियमुक्तिः । उग्रं भेदमयत्वाद्गीषणं । जगद्विश्वं,
परिसमाप्तमिव । समाविष्टस्य हि न बाह्यं विश्वं विभाति अथ च
संस्कारशेषतयाSSस्ते इति इव शब्दः । मनसश्च अविरलो घनः
मलः अविद्याकलात्मा विगलितः । तथाऽपि निःशेषशान्ताशेष-
विश्वमयप्रफुल्ल महाविद्योद्यज्जगदानन्दमयस्य पूरकत्वात्पुररूपस्य,
यद्दोपुरं पुरद्वारं परमशक्तिरूपं, तत्रार्गलयुक्तकवाटविघट्टनमति-
दृढाख्यातिपुटविपाटनं मम मनागपि नास्ति । अनेन प्रविगलितनिः
शेपदेहादिसंस्कारां परां भूमिमेवोपादेयत्वेन ध्वनति । यदुक्तं
"सर्वथा त्वन्तरालीने" सादि श्रीमयभिज्ञायां । "सर्वातीतः शिवो
ज्ञेयो यं विदित्वा विमुच्यते" इति पूर्वशास्त्रे ॥ १५ ॥
सततफुल्लभवन्मुखपङ्कजो-
दरविलोकनलालसचेतसः ।
किमपि तत्कुरु नाथ मनागिव
स्फुरसि येन ममाभिमुखस्थितिः ॥ १६ ॥
 

 
CC-0 Pulwama Collection. Digitized by eGangotri