This page has been fully proofread once and needs a second look.

शिवस्तोत्रावल्याम्
 
त्वज्जुषां त्वयि कयाऽपि लीलया

राग एष परिपोषमागतः ।

यद्वियोगभुवि सङ्ख्याकथा तथा
 

संस्मृतिः फलति संगमोत्सवम् ॥ १२ ॥

 
त्वज्जुषामिति । कयापीति अनुत्तरसमावेशशालिन्या लील-
या त्वज्जुषां त्वां मीसाप्रीत्या सेवमानानाम् । एष इति असामान्यो रागः
परिपोषं प्राप्तः । त्वद्वियोगभुवि व्युत्थाने । सङ्कथा संस्मृतिश्च कर्त्री
सम्भोगोत्सवं सम्भोगदशां फलति । वियोगभुवि सङ्गमोत्सवमि-
त्युक्त्या अलौकिकत्वमनुरागस्य ध्वनति ॥ १२ ॥

 
यो विचित्ररससेकवर्धितः

शङ्करेति शतशोऽप्युदीरितः ।

शब्द आविशति तिर्यगाशये-
રૂર
 
प्

ष्
वप्ययं नवनवप्रयोजनः ॥ १३ ॥

 
ते जयन्ति सुखमण्डले भ्रमन्

अस्ति येषु नियतं शिवध्वनिः ।

यः शशीव प्रस्टतो ऽमृताशयातू
 
त्
स्वादु संस्रवति चामृतं परम् ॥ १४ ॥

 
यो विचित्रेति ते जयन्तीति युगलकम् । ते जयन्ति येषु सु
खमण्डले नियतं निश्चितं कृत्वा भ्रमन् शिवध्वनिरस्ति । यः
स्वादु परं चामृतं सम्यक् स्रवति आनन्दरसं समुच्छलयति ।
कीदृक् अमृताशयात् साक्षात्कृतचिद्धन- परमेश्वररूपात्मसृतः स्व-
रसेनोच्चारितः । यथा अमृताशयात्, शशी चन्द्रमाः प्रसृतः मण्ड-
CC-0 Pulwama Collection. Digitized by eGangotri