This page has not been fully proofread.

शिवस्तोत्रावल्याम्
 
त्वज्जुषां त्वयि कयाऽपि लीलया
राग एष परिपोषमागतः ।
यद्वियोगभुवि सङ्ख्या तथा
 
संस्मृतिः फलति संगमोत्सवम् ॥ १२ ॥
त्वज्जुषामिति । कयापीति अनुत्तरसमावेशशालिन्या लील-
या त्वज्जुषां त्वां मीसा सेवमानानाम् । एष इति असामान्यो रागः
परिपोषं प्राप्तः । त्वद्वियोगभुवि व्युत्थाने । सङ्कथा संस्मृतिश्च कर्त्री
सम्भोगोत्सवं सम्भोगदशां फलति । वियोगभुवि सङ्गमोत्सवमि-
त्युक्त्या अलौकिकत्वमनुरागस्य ध्वनति ॥ १२ ॥
यो विचित्ररससेकवर्धितः
शङ्करेति शतशोऽप्युदीरितः ।
शब्द आविशति तिर्यगाशये-
રૂર
 
प्वप्ययं नवनवप्रयोजनः ॥ १३ ॥
ते जयन्ति सुखमण्डले भ्रमन्
अस्ति येषु नियतं शिवध्वनिः ।
यः शशीव प्रस्टतो ऽमृताशयातू
 
स्वादु संस्रवति चामृतं परम् ॥ १४ ॥
यो विचित्रेति ते जयन्तीति युगलकम् । ते जयन्ति येषु सु
खमण्डले नियतं निश्चितं कृत्वा भ्रमन शिवध्वनिरस्ति । यः
स्वादु परं चामृतं सम्यक् स्रवति आनन्दरसं समुच्छलयति ।
कीहक् अमृताशयात् साक्षात्कृतचिद्धनपरमेश्वररूपात्मसृतः स्व-
रसेनोच्चारितः । यथा अमृताशयाव, शशी चन्द्रमाः प्रसृतः मण्ड-
CC-0 Pulwama Collection. Digitized by eGangotri