This page has not been fully proofread.

सुरसोइलाख्यं चतुर्थ स्तोत्रम् ।
 
३१
 
निश्चितस्तथैव मे सुष्ठु व्युत्थानेऽपि समावेशवशात् प्रकटो
 
भव ॥ ९ ॥
 
स्वेच्छयैव भगवन्निजमार्गे
कारितः पदमहं प्रभुणैव ।
तत्कथं जनवदेव चरामि
 
त्वत्पदोचितमवैमि न किंचित् ॥ १० ॥
 
स्वेच्छयैवेति । हे भगवन् अहं प्रभुणैव न तु अन्येन केन
चित् । स्वेच्छयैव निरपेक्षशक्तिपातयुक्त्या। निजमार्गे विकस्वरश-
क्तिवर्त्मनि । पदं कारितः विश्रान्तिं लम्भितः । तत्कथं जनवदेव
लोकवदेव।चरामि व्युत्थाने व्यहरामि। त्वत्पदोचितं त्वन्मरीचि-
परिचयसमुचितं समावेशवशान्न किं चिदवगच्छामि ॥ १० ॥
 
कोऽपि देव हृदि तेषु तावको
जृम्भते सुभगभाव उत्तमः ।
त्वत्कथाम्बुदनिनादचातका
 
येन तेऽपि सुभगीकृताश्चिरम् ॥ ११ ॥
 
कोपीति । हे देव तेषु केषु चित् प्रागुक्तभक्तिमत्सु हृदि ता-
वकः उत्तमः उत्कृष्टः सुभगभावः कोऽपि उच्छलदानन्दरसोल्बण-
त्वं किमप्युज्जृम्भते, येन तेऽपीति समावेशसम्भिन्नहृदया अपि,
अत एव त्वत्कथैव अम्बुदनिनादः तत्र चातका इव समावेश-
शालिमतन्यमानशिवकथाSSकर्णनमगृहृदया अपि चिरं सुभ-
गीकृताः समावेशभूमिं लम्भिताः । यत्कथामात्रेण समावेशोऽव-
तरतीसर्थः ॥ ११ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri