This page has been fully proofread once and needs a second look.

शिवस्तोत्रावल्याम्
 
के चित् द्वैतनिष्ठाः, भेदेन पर्युषिता, झगिति उपभोगानासा-
दनेन शुक्तीकृत- प्राया वृत्ति: स्वरूपं यस्य तमुपेताः प्राप्ताः,
न तु सद्य आस्वादयन्ति । के चित्पुनः परशक्तिपातपवित्रिताः
सद्यो भातं झगिति उपनतं अक्षतवपुषं नित्यस्फुरत्स्वरूपं
द्वयशून्यं चिदान्दैकघनं रसयन्ति चमत्कुर्वन्ति ।
के चिदिसचिदित्यपकर्षः
केचनापीत्युत्कर्षं ध्वनति ॥ ७ ॥
 

 
नाथ विद्युदिव भाति विभा ते

या कदा चन ममामृतदिग्धा ।

सा यदि स्थिरतरैव भवेत्तत्
 

पूजितोऽसि विधिवत्किमुतान्यत् ॥ ८ ॥
 

 
नाथ विद्युदिवेति । हे नाथ तव विभा परः शक्तिः
स्पन्दः । अमृतदिग्धा परमानन्दोपचिता । विद्युदिव क्षणमात्रं
कदाचिन्ममावभाति समावेशे स्फुरति । सा यदि बलवद्व्युत्थानमपहस्य नित्योदिता स्यात्तद्विधिवद्यथा-
नमपहस्य नियोदिता स्यात्तद्विधिवद्यथा
तत्त्वं पूजितोऽसि । कि
मुतान्यत् परिसमाप्तं करणीयं कृतकृत्यता च जायते इसर्थः ॥८॥
सर्वमस्य

 
सर्वमस्य
ऽपरमस्ति न किंचिदू
 
द्
वस्त्ववस्तु यदि वेति महत्या ।

प्रज्ञया व्यवसितोऽत्र यथैव
 

त्वं तथैव भव सुप्रकटो मे ॥ ९ ॥
 

 
सर्वमसीति । असि त्वं सर्वमपरं वस्तु यदि वा ऽवस्तु न
किं चिदस्ति, सर्वस्य चिद्धनत्वात्प्रकाशमयत्वेन प्रकाशनात्
सेत्येवं शुद्धविद्यामय्या यथैव महत्या प्रज्ञयाऽत्रजगति त्वं
 
CC-0 Pulwama Collection. Digitized by eGangotri