2023-02-27 05:36:06 by ambuda-bot
This page has not been fully proofread.
शिवस्तोत्रावल्याम्
के चित् द्वैतनिष्ठाः, भेदेन पर्युषिता, झगिति उपभोगानासा-
दनेन शुक्तीकृतप्राया वृत्ति: स्वरूपं यस्य तमुपेताः प्राप्ताः,
न तु सद्य आस्वादयन्ति । के चित्पुनः परशक्तिपातपवित्रिताः
सद्यो भातं झगिति उपनतं अक्षतवपुषं नियस्फुरत्स्वरूपं
द्वयशून्यं चिदान्दैकघनं रसयन्ति चमत्कुर्वन्ति । के चिदिसपकर्षः
केचनापीत्युत्कर्षं ध्वनति ॥ ७ ॥
नाथ विद्युदिव भाति विभा ते
या कदा चन ममामृतदिग्धा ।
सा यदि स्थिरतरैव भवेत्तत्
पूजितोऽसि विधिवत्किमुतान्यत् ॥ ८ ॥
नाथ विद्युदिवेति । हे नाथ तव विभा परः शक्तिः
स्पन्दः । अमृतदिग्धा परमानन्दोपचिता । विद्युदिव क्षणमात्रं
कदाचिन्ममावभाति समावेशे स्फुरति । सा यदि बलवद्व्युत्था-
नमपहस्य नियोदिता स्यात्तद्विधिवद्यथातत्त्वं पूजितोऽसि । कि
मुतान्यत् परिसमाप्तं करणीयं कृतकृसता च जायते इसर्थः ॥८॥
सर्वमस्य ऽपरमस्ति न किंचिदू
वस्त्ववस्तु यदि वेति महत्या ।
प्रज्ञया व्यवसितोऽत्र यथैव
त्वं तथैव भव सुप्रकटो मे ॥ ९ ॥
सर्वमसीति । असि त्वं सर्वमपरं वस्तु यदि वा ऽवस्तु न
किं चिदस्ति, सर्वस्य चिद्धनत्वात्प्रकाशमयत्वेन प्रकाशनात्
इसेवं शुद्धविद्यामय्या यथैव महया प्रज्ञयाऽत्रजगति वं
CC-0 Pulwama Collection. Digitized by eGangotri