This page has been fully proofread once and needs a second look.

सुरसोद्वलाख्यं चतुर्थ स्तोत्रम् ।
ते विरिञ्चिमधिकारमलेना-
SSलिप्तमस्ववशमीश हसन्ति ॥ ५ ॥
 
तावकाङ्घ्रीति । सङ्कोचविकासपरत्वन्मरीचिविश्रान्ताः तत एव आस्वादित स्वातन्त्र्या, यथारुचि करणेश्वरीप्रसरयुक्त्या, ये जगद्रचयन्ति ते विरिंञ्चि ब्रह्माणमधिकारमलेन आसमन्ताल्लिप्तमत एव नियतिपरतन्त्रत्वाद- स्ववशमस्वतन्त्रं । हे ईश स्वतन्त्र । हसन्ति कमलासनोऽपि तेषां हासास्पदमियर्थः ॥ ५ ॥
 
त्वत्प्रकाशवपुषो न विभिन्नं
किं च न प्रभवति प्रतिभातुम् ।
तत्सदैव भगवन्परिलब्धो
ऽसीश्वर प्रकृतितोऽपि विदूरः ॥ ६ ॥
 
त्वप्रकाशवपुषइति । हे ईश्वर असि त्वं प्रकृतितः विदूरोऽपि स्वगोपनाद- प्राप्योऽपि सदैव परिलब्धः अस्माभिरिति शेषः । यतः यत् किञ्चित्प्रतिभातुं प्रभवति भासते तत्त्वत्तः प्रकाशवपुषश्चिद्रूपात् न भिन्नं प्रकाशमयस्यैव प्रकाशार्हत्वात् । यथोक्तं- "यस्मात्सर्वमयो जीव" इत्यादि "भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थित" इत्यन्तम् ॥ ६ ॥
 
पादपङ्कजरसं तव के चिद्
भेदपर्युषितवृत्तिमुपेताः ।
के चनाऽपि रसयन्ति तु सद्यो
भातमक्षतवपुर्द्वयशून्यम् ॥ ७ ॥
 
पादपङ्कजेति । तव ज्ञानक्रियामरीचिद्वयमयचरणकमलरसं