This page has been fully proofread once and needs a second look.

सुरसोद्वलाख्यं चतुर्थ स्तोत्रम् ।

ते विरिञ्चिमधिकारमलेना-

SSलितमस्ववराप्तमस्ववशमीश हसन्ति ॥ ५ ॥
 

 
तावकाङ्गीघ्रीति । सङ्कोचविकासपरत्वन्मरीचिविश्रान्ताः तत
वं आस्वादित स्वातन्त्र्या, यथारूरुचि करणेश्वरीप्रसरयुक्त्या, ये
जगद्रचयन्ति ते विरिरिंञ्चि ब्रह्माणमधिकारमलेन आसमन्ताल्लिप्तमत
एव नियतिपरतन्त्रत्वाद- स्ववशमस्वतन्त्रं । हे ईश स्वतन्त्र । हसन्ति
कमलासनोऽपि तेषां हासास्पदमियर्थः ॥ ५ ॥
 

 
त्वत्प्रकाशवपुषो न विभिन्नं

किं च न प्रभवति प्रतिभातुम् ।

तत्सदैव भगवन्परिलब्धो
 

ऽसीश्वर प्रकृतितोऽपि विदूरः ॥ ६ ॥
 

 
त्वप्रकाशवपुषइति । हे ईश्वर असि त्वं प्रकृतितः विदूरोऽपि
स्वगोपनाद- प्राप्योऽपि सदैव परिलब्धः अस्माभिरिति शेषः ।
यतः यत् किञ्चित्प्रतिभातुं प्रभवति भासते तत्त्वत्तः प्रकाशवपुष-
श्चिद्रूपात् न भिन्नं प्रकाशमयस्यैव प्रकाशार्हत्वात् । यथोक्तं-
"यस्मात्सर्वमयो जीव" इसात्यादि "भोक्तैव भोग्यभावेन सदा सर्वत्र
संस्थित" इत्यन्तम् ॥ ६ ॥

 
पादपङ्कजरसं तव के चिदू
द्
भेदपर्युषितवृत्तिमुपेताः ।

के चनाऽपि रसयन्ति तु सद्यो

भातमक्षतवपुर्द्वयशून्यम् ॥ ७ ॥

 
पादपङ्कजेति । तव ज्ञानक्रियामरीचिद्यमयचरणकमलरसं
 
CC-0 Pulwama Collection. Digitized by eGangotri
 
23