This page has not been fully proofread.

सुरसोद्वलाख्यं चतुर्थ स्तोत्रम् ।
ते विरिञ्चिमधिकारमलेना-
SSलितमस्ववरामीश हसन्ति ॥ ५ ॥
 
तावकाङ्गीति । सङ्कोचविकासपरत्वन्मरीचिविश्रान्ताः तत
एवं आस्वादितस्वातन्त्र्या, यथारूचि करणेश्वरीम सरयुक्त्या, ये
जगद्रचयन्ति ते विरिञ्चि ब्रह्माणमधिकारमलेन आसमन्ताल्लिप्तमत
एव नियतिपरतन्त्रत्वादस्ववशमस्वतन्त्रं । हे ईश स्वतन्त्र । हसन्ति
कमलासनोऽपि तेषां हासास्पदमियर्थः ॥ ५ ॥
 
त्वत्प्रकाशवपुषो न विभिन्नं
किं च न प्रभवति प्रतिभातुम् ।
तत्सदैव भगवन्परिलब्धो
 
ऽसीश्वर प्रकृतितोऽपि विदूरः ॥ ६ ॥
 
त्वप्रकाशवपुषइति । हे ईश्वर असि त्वं प्रकृतितः विदूरोऽपि
स्वगोपनादप्राप्योऽपि सदैव परिलब्धः अस्माभिरिति शेषः ।
यतः यत् किञ्चित्प्रतिभातुं प्रभवति भासते तत्त्वत्तः प्रकाशवपुष-
श्चिद्रूपात् न भिन्नं प्रकाशमयस्यैव प्रकाशार्हत्वात् । यथोक्तं-
"यस्मात्सर्वमयो जीव" इसादि "भोक्तैव भोग्यभावेन सदा सर्वत्र
संस्थित" इसन्तम् ॥ ६ ॥
पादपङ्कजरसं तव के चिदू
भेदपर्युषितवृत्तिमुपेताः ।
के चनाऽपि रसयन्ति तु सद्यो
भातमक्षतवपुर्दयशून्यम् ॥ ७ ॥
पादपङ्कजेति । तव ज्ञानक्रियामरीचिद्रयमयचरणकमलरसं
 
CC-0 Pulwama Collection. Digitized by eGangotri
 
23