This page has not been fully proofread.

शिवस्तोत्रावल्याम्
 
यस्योपगन्तव्यस्य आत्मसमीपे प्राप्तव्यस्य शिवस्य चरणान्
मरीचीनू, आसमन्तात् श्रित्वा समावेशयुक्त्या स्वीकृयापि, चित्रं
यदद्यापि अधरतरां भूमि व्युत्थानपतितां मायीयदेहादिप्रमा-
तृतां न सजामि । दैवतानां सोपानक्रमेणानुपादेयतां भगवतस्तु
चरणसमाश्रयेणोपादेयतमतां प्रकाशयन्नात्मनस्तत्समाश्रयेण
श्लाघ्यतां ध्वनति ॥ २ ॥
 
प्रकटय निजमध्वानं
 
२८
 
स्थगयतरामखिललोकचरितानि ।
 
यावद्भवामि भगवं-
स्तव सपदि सदोदितो दासः ॥ ३ ॥
 
प्रकटयेति । निजमध्वानं स्वंशाक्तं मार्गम्। अखिलस्य लो-
क्यलोकपितृरूपस्य मेयमातृवर्गस्य सदाशिवान्तस्य । चरितानि
स्थगयतरां निःशेषेण शमय । यावत् तव सदोदितो दासो भवा-
मि त्वच्चरणसपर्यापरो निससमाविष्टः स्फुरामि इति यावत् ॥३॥
शिव शिव शम्भो शङ्कर
 
शरणागतवत्सलाशु कुरु करुणां ।
तव चरणकमलयुगल-
स्मरणपरस्य हि सम्पदो ऽदूरे ॥ ४ ॥
 
शिवशिवेति । तव चरणयुगलं ज्ञानक्रियामयं मरीचिद्वयं ।
सम्पदः समावेशसाराः परमानन्दमय्यः । अरे निकटे ॥ ४ ॥
तावकाङ्क्षि कमलासनलीना
ये यथारुचि जगद्रचयन्ति ।
 
CC-0 Pulwama Collection. Digitized by eGangotri