2023-05-19 06:41:37 by jayusudindra
This page has been fully proofread once and needs a second look.
श्रीश्रीशिवस्तोत्रावली ।
श्री उत्पलदेवाचार्य्य विरचिता ।
ॐ तत्सत्
ॐ न ध्यायतो न जपतः स्याद्यस्याविधिपूर्वकम् ।
एवमेव शिवाभासस्तं नमो भक्तिशालिनम् ॥ १॥
ॐ तत्सत् । श्रीविघ्नहर्त्रे नमः । श्रीगुरवे शिवायोँ नमः । ॐ उद्धरसन्धतम- साद्विश्वमानन्दवर्षिणी । परिपूर्णा जयत्येका देवीचिच्चन्द्रचन्द्रिका । अत्यर्थितोस्मि बहुभिर्बहुशो भक्तिशालिभिः । व्याकरोमि मनाकू श्रीमत्प्रत्यभिज्ञाकृतः स्तुतीः ॥ ईश्वरप्रत्यभिज्ञाकारो वन्द्याभिधानः श्रीमदुत्पलदेवाचार्योऽस्मत्परमेष्ठी सततसाक्षात्कृतस्वात्ममहेश्वरः स्वं रूपं तथात्वेन पराम्रष्टुमर्थिजनानुजिघृक्षया संग्रहस्तोत्रजयस्तोत्रभक्तिस्तोत्रा- ण्याह्निकस्तुतिसूक्तानि च कानिचिन्मुक्तकान्येव बबन्ध । अथ कदाचित्तानि तद्व्यामिश्राणि लब्ध्वा श्रीराम आदित्यराजश्च पृथक् पृथक् स्तोत्रशय्यायां न्यवेशयत् । श्रीविश्वावर्त्तस्तु विशंशँत्या स्तोत्रैः स्वात्मोत्प्रेक्षितनामभिर्व्य-
वस्थापितवानिति किल श्रूयते । तदेतानि संग्रहादिस्तोत्राणि सूक्तान्येव प्रसिद्धवार्तिकशय्योपारूढानि स्पष्टं व्याकुर्मः। मोक्षलक्ष्मीसमाश्लेष-
रसास्वादमयस्य परमेश्वरसमावेशस्यैव परमोपादेयतांदर्शयितुं परमेशस्वरूपाविभिन्नतत्समाविष्टभक्तजनस्तुतिक्रमेण स्तो-
श्री उत्पलदेवाचार्य्य विरचिता ।
ॐ तत्सत्
ॐ न ध्यायतो न जपतः स्याद्यस्याविधिपूर्वकम् ।
एवमेव शिवाभासस्तं नमो भक्तिशालिनम् ॥ १॥
ॐ तत्सत् । श्रीविघ्नहर्त्रे नमः । श्रीगुरवे शिवायोँ नमः । ॐ उद्धरसन्धतम- साद्विश्वमानन्दवर्षिणी । परिपूर्णा जयत्येका देवीचिच्चन्द्रचन्द्रिका । अत्यर्थितोस्मि बहुभिर्बहुशो भक्तिशालिभिः । व्याकरोमि मनाकू श्रीमत्प्रत्यभिज्ञाकृतः स्तुतीः ॥ ईश्वरप्रत्यभिज्ञाकारो वन्द्याभिधानः श्रीमदुत्पलदेवाचार्योऽस्मत्परमेष्ठी सततसाक्षात्कृतस्वात्ममहेश्वरः स्वं रूपं तथात्वेन पराम्रष्टुमर्थिजनानुजिघृक्षया संग्रहस्तोत्रजयस्तोत्रभक्तिस्तोत्रा- ण्याह्निकस्तुतिसूक्तानि च कानिचिन्मुक्तकान्येव बबन्ध । अथ कदाचित्तानि तद्व्यामिश्राणि लब्ध्वा श्रीराम आदित्यराजश्च पृथक् पृथक् स्तोत्रशय्यायां न्यवेशयत् । श्रीविश्वावर्त्तस्तु वि
वस्थापितवानिति किल श्रूयते । तदेतानि संग्रहादिस्तोत्राणि सूक्तान्येव प्रसिद्धवार्तिकशय्योपारूढानि स्पष्टं व्याकुर्मः। मोक्षलक्ष्मीसमाश्लेष-
रसास्वादमयस्य परमेश्वरसमावेशस्यैव परमोपादेयतांदर्शयितुं परमेशस्वरूपाविभिन्नतत्समाविष्टभक्तजनस्तुतिक्रमेण स्तो-