This page has been fully proofread once and needs a second look.

सुरसोद्वलाख्यं चतुर्थ स्तोत्रम् ।
अलमाक्तन्दितैरन्यैरियदेव पुरः प्रभोः ।

तीव्रं विरौमि यन्नाथ मुह्याम्येवं विदन्नपि ॥२१॥
 

 
अलमिति । व्युत्थानदशापरवशः समावेशतत्त्वं जाननपि
न्नपि मुह्यामीति व्युत्थाने समावेशवशो भवामीति शिवम् ॥ २१ ॥

 
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ प्रणयप्रसादनाम के

तृतीयस्तोत्रे श्रीक्षेमराजविरचिता विवृतिः ॥
 
૨૭
 

 
ॐ चपलमसि यदपि मानस

तत्रापि श्लाध्यसे यतो भजसे ।

शरणानामपि शरगां
 
णां
भुवनगुरुमम्बिकाकान्तम् ॥ १ ॥
 

 
ॐ चपलमसीति । चापलाद्यद्यपि भगवद्भजने न प्ररोहसि
तथा ऽपि कृतार्थमसि । क्षणमात्रमपि तत्सेवायाः पूर्णव्याप्तिप्रद-
त्वात् । अत एव शरणानामपीत्यसामान्यतां भगवतः प्रथयति ।
शरणानां ब्रह्मविष्ण्वादी- नामपि शरणं समाश्रयं त्रिभुवनगुरुं
विश्वस्योपदेष्टारं पूज्यं च । अम्बिका परा शक्तिः ॥ १ ॥

 
उल्लङ्घ्य विविधदैवतसोपानक्रममुपेयशिवचरणान् ।

आश्रित्याप्यधर
तरां भूमिं नाद्याऽपि चित्रमुज्ज्ञामि
 

 
उल्लङ्घ्येति । विविधानि ब्रह्मविष्णुरुद्रेश्वरसदाशिवादिरूपा-
णि दैवतान्येव सोपानक्रमः, तमुल्लङ्घ्य विश्रान्तिपदीकसकृत्य, उपे-
CC-0 Pulwama Collection. Digitized by eGangotri