This page has been fully proofread once and needs a second look.

शिवस्तीत्रावल्याम
 
सतोऽवश्यं परमसत्सच्च तस्मात्परं प्रभो ।

त्वं चासतस्सतश्चान्यस्तेनाऽसि सदसन्मयः ॥ १८॥
 
ર૬
 

 
सतोवश्यमिति । भावाभावौ परस्परभिन्नौ । त्वमसतः खपु-
प्या
ष्पादेः, सतश्च नीलमुखादेरन्यो विलक्षणः चिदानन्दघनः, अत
एव सदसन्मयः सद्रूपोप्यसद्रूपोऽपि सदसद्रूपोऽपि विश्वात्मक-
स्त्वं, "नतु सद्रूप एव वा असद्रूप एव वा उभयोज्ज्ञित एव वा । तथा
श्रीभर्गशिखायां -"न सन्न चासत्सदसन्नव तदुभयोज्ज्ञितमि"त्युप-
क्रम्य, दुर्जेज्ञेया हि साऽवस्था किमप्येतदनुत्तरमि" त्यनिर्वचनीयत-
यैव विश्वोत्तीर्णविश्वमयचिदानन्दघन- मनुत्तरस्वरूपं सदसत्त्वेनेति
श्लोकेन भावनीयसदसत्ताकोटिद्वय
वैलक्षण्य- मुक्तम्, अनेन तु सर्व-
भावाभावोत्तरत्वम् ॥ १८ ॥
 

 
सहस्रसूर्यकिरणाधिकशुद्धप्रकाशवान् ।

पि त्वं सर्वभुवनव्यापकोऽपि न दृश्यसे ॥१९॥
 

 
सहस्रसूर्यकिरणेभ्योप्यधिकः, तेषामपि तत्प्रकाशत्वात् ।
शुद्धश्चिदेकरूपः प्रकाशो भूम्ना प्राशस्येन च यस्य । अत एव
सर्वभुवनव्यापकत्वं । मायाव्यामूढै र्न दृश्यसे भासमानोऽपि न
प्रसभिज्ञायसे इति यावत् ॥ १९ ॥
 

 
जडे जगति चिद्रूपः किल वेद्येऽपि वेदकः ।

विभुर्मिते च येनासि तेन सर्वोत्तमो भवान् ॥ २० ॥
 

 
जडे जगतीति । जगति क्षित्यादिसदाशिवावसाने जडे
वेद्ये मिते च असि त्वं चिद्रूपो वेदको व्यापकश्च यतस्ततः
सर्वोत्तमोसीति सम्बन्धः ॥ २० ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri