This page has been fully proofread once and needs a second look.

" प्रणयप्रसादाख्यं तृतीयं स्तोत्रम् ।
 
२५
 
जयन्तीति । जगद्वन्द्यत्वं शिवसमावेशमात्रत्वात् । जगतां विभो,
तव दासास्ते जयन्ति, येषां संसारसमुद्र एवैष इसतिधोत्यतिघोरोऽपि
चिद्रूपतया ज्ञातपरमार्थः सन् क्रीडामहासरः कल्पः । यथोक्तं "इति
वा यस्य संवित्तिः क्रीडात्वे- नाखिलं जगत्, सम्पश्यान्नि" त्यादि ॥ १५ ॥

 
आस
तां तावदन्यानि दैन्यानीह भवज्जुषाम् ।

त्वमेव प्रकटीभूया इत्यनेनैव लज्ज्यते ॥ १६ ॥
 

 
आसतां तावदिति । अन्यानि दैन्यानि अणिमादिप्रार्थना ।
भवज्जुषां सतत- समावेशप्रथमानत्वत्स्वरूपाणामतएवार्थनीया-
न्तरविरहात्प्रकटीभूया इत्यनेनैव कदाचित्समाविष्टैः प्रार्थनीयेन
यतो लज्ज्यते ततो दण्डापूपीन्यायेन दैन्यान्तरसम्भावनैव
 
नास्ति ॥ १६ ॥
 

 
मत्परं नास्ति तन्त्रापि जापकोऽस्मि तदैक्यतः ।

तत्त्वेन जप इत्यक्षमालया दिशसि क्वचित् ॥१७॥
 

 
मत्परं नास्ति तन्त्रेति । महेशितुरपि जप्यं देवतान्तरमस्ति
अक्षमाला- योगादिति ये मुह्यन्ति तानू बोधयितुमाह । मत्परं ताव-
न्नास्ति तथाऽपि जापकोऽस्मि यत्, तत् तस्मात् ऐक्यत ऐक्येन
चिदभेदेन, परमार्थतो जपः पूर्णाहन्ताविमर्शात्मा निसोदितो भव-
तीति अक्षमालया क्वचिद्नौरीश्वराद्याकृतौ दिशसि कथयसि ।
तच्छन्ब्दाद्यच्छन्ब्द आक्षेप्यः । अथ वा अक्षमालया करणेश्वरीपं-
त्त्या समस्तार्थसार्थे सर्गसंहारपरम्परासम्पत्तये पुनः पुनरावर्त
-
मानया ऐक्यतो महार्थनया भेदसारेणैकत्वेन च जपोऽनुत्तर-
विमर्शसारो भवतीत्यक्षमालयैव वर्णलिपिन्यायेन युक्त्या शिक्ष-
यसि ॥ १७ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri