This page has been fully proofread once and needs a second look.

शिवस्तोत्रावल्याम
 
दुर्जयानामिति । हस्तात्पलायिता इत्यनेन शिवध्वनिशून्यवा
चः सर्वदुःखा- क्रान्ता इति ध्वनति । तथा चोच्यते आब्रह्मणश्च
कीटाच्चेत्यादि । "आब्रह्मणश्च कीटाच्च न कश्चित् तत्त्वतः सुखी ।
करोति तास्ता विकृती: सर्व एव जिजीविषुः" ॥ १३ ॥
 
૨૪
 

 
उत्तमः पुरुषोऽन्योऽस्ति युष्मच्छेषविशेषितः ।

त्वं महापुरुषस्त्वेको निःशेषपुरुषाश्रयः ॥१४॥
 

 
उत्तमः पुरुष इति । हरिः पुरुषोत्तम इति प्रसिद्धः, स यु-
ष्मच्छेषेण तावकेन अभेदसारविद्याऽधिष्ठातृषु प्रमातृषु च लब्धा-
दन्येन अधिष्ठानात्मना स्वरूपेण विशेषितः सम्पादितविशेषः ।
तथा चागम:- "वैष्णव्यास्तु स्मृतो विष्णु" रिति । त्वं सकलादिस-
दाशिवान्तनिःशेषपुरुषाश्रयत्वान्महापुरुषः । अन्यशब्दः कश्चिद
र्थः । एकः अद्वितीयः । इति एकः श्लोकार्थः । अपरस्तु व्याकरणप्र-

क्रियया उत्तमपुरुषः अस्मदर्थे यः स युष्मच्छेषाभ्यां मध्यमप्र-
थमपुरुषाभ्यां विशेषितः सञ्जातविशेषोऽस्ति, तस्य च तटस्थपरामृश्यात्प्रथमपुरुषायुद्यु-
राश्यात्मथमपुरुषायु
ष्मदर्थोन्मुखाच्च मध्यमपुरुषादयं विशेषः
यदशेषपुरुषाश्रयत्वं तद्विश्रान्ति- धामत्वं । सर्वस्येदन्ताविमृश्यस्या
न्तायामेव विश्रान्तेः । स पचति त्वं पंचसि अहं पचामीति वि-
वक्षायां वयमेव पचाम इसात्यादौ प्रयोगेऽयमेवाशय इसात्यास्तां । त्वं
तु विनिःशेषाणां प्रथममध्यमोत्तमपुरुषाणां कल्पिता नामकल्पि-
चिद्रूपाश्रयः । यथोक्तं प्रत्यभिज्ञायां "ग्राह्यग्राहकताभिन्नावर्थी
थौ भातः प्रमातरि" इति अत एव महापुरुषो महेश्वरो, महादेववन्म-
इच्छब्दस्य त्वय्येव महप्रवृत्तत्वात् ॥ १४ ॥
 

 
जयन्ति ते जगद्वन्द्या दासास्ते जगतां विभो ।

संसारार्णाव एवैष येषां क्रीडामहासरः ॥ १५॥
 
CC-0 Pulwama Collection. Digitized by eGangotri